पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/19

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
दिव्यदृष्टिः

 सोऽब्रूत–-“किं मृत्खण्डे कस्यापि चित्रस्य दर्शनमसम्भवि मन्यसे । त्वं मद्वचनेन ‘नायं मृत्खण्डः, किन्तु पारदर्शि काचमिद' मिति किञ्चित्कालं मन्यस्व ।"

 अहमगादिषम्--"किं भगवता परिहासः क्रियते ? मृत्खण्डं काच- त्वेन कथमहं भावयेयम्, तदन्तरे चित्रं च कथं पश्येयम्, किमीदृक कदाऽपि सम्भवति ?"

 स उवाच-“किमिति न, संसारे ऽस्मिन्नसम्भाव्यं नाम किमपि नास्ति, मानवः स्वां प्रबलामिच्छाशक्तिं यदि व्यापारयितुं नेहते तर्ह्यन्य- देतत् । त्वं मद्वचनेन तथा कर्तुं चेष्टस्व, ततो द्रक्ष्यसि फलं भवति न वेति" ।

 महात्मनः कथने गम्भीरता ऽऽसीत. अतस्तद्वचसां परिहासालाप- प्रायता न कल्पयितुं योग्या । इत्थमपि मम तद्वचने नाल्पीयानपि विश्वासो ऽभूत् । किं कुर्याम्, किं वा न कुर्याम् तद्वचांसि यथार्थानि परि- हास प्रायाणि वा ऽवगच्छेयम् । न किमपि निश्चेतुमहमपारयम्।

 पुनरभ्यधायि महात्मना–“वत्स ! त्वं स्थिरचेता भूत्वा सर्वा अपि मनोवृत्तीरस्मिन मृत्खण्ड एव सन्धेहेि। अन्यत्सर्वमस्मिन् क्षणे विस्मर । इममशान्तिमयं संसारं, यत्र त्वं संसरसि, तवेमं सखायं, इमां कुर्टी , मां च तव पुरःस्धितमस्थिमांसपिण्डं सर्वथा विस्मर । आन्तरेण कल्पनामयेन चक्षुषाऽपि मृत्खण्डमेव पश्य, भाविन्याः स्वभार्यायाश्चित्रमत्राहं दिदृक्षामीति सर्वात्मना भावय । ततो द्रक्ष्यसि किं दृश्यत इति ।”

 मया चिन्तितम्-महात्मनः कथनानुसारं प्रयतने को दोषः, यदि मया स्थिरचेतसा ध्यानपूर्वकं दृष्टेऽपि न किंचिद्दृश्यं पुरः समुपतिष्ठेत तदा ध्रुवमवधारयेयं धूर्तीऽयं महात्मेति । मत्प्रश्श्रोत्तरं दातुमपारयन्नसौ मां वचनेषु व्यामोहयतीति । मुहूर्ते महात्मनो वचसि विश्वासमाधाय किमपि कौतुकं मया ऽवश्यं द्रक्ष्यते इत्यप्यवधाय तं मृत्खण्डमनु दृष्टिं स्थिरां कृत्वा ऽहमुपाविशम् । कुटीराभ्यन्तरे सर्वथा शान्तिरासीत् । मेघश्यामो मम पाश्र्वे स्थितः सन् कदाचित् आरूढमृत्खण्डां त्रिपादिकां, कदाचिन्मां च निर्वर्णयन्नासीत्। कुट्यामागमनात्परं तेनैकोऽपि शब्दो नोच्चरित आसीत् । महात्मना सह मम संवादे कौतूहलमनुभवता तेन मध्ये किमपि कथनमनुचितमिव विभावितं भवेत् । महात्मना च स्थिरया दशा मामेव पश्यन्नासीत्, तदानीं तस्य नयनाभ्यां क्षणे क्षणे किमपि