पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/20

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
दिव्यदृष्टि:

विद्युद्विलसितनिभं तेजः प्रकटीभवल्लक्ष्यते स्म । अहं किल महात्मन आदेशानुसारं तस्मिन् मृत्खण्डे चित्तं स्थिरीकर्तुं सर्वभावेन चेष्टामकरवम्। अत्रान्तरे समयः कथमतीयायेति नाहं विस्पष्टमवागच्छम् । शनैः शनै: कुटीराभ्यन्तरे गाढं तमः प्रसृतमिव प्रतीतम्, दीपज्योतिरपि लुप्तमभूत् । अन्तर्बहिः सर्वत्र काऽपि विचित्रा पूर्वाननुभूता स्तिमितता लक्ष्यतेस्म । यथा यथा मम चित्तमेकाग्रं बभूव तथा तथा मम हृत्स्पन्दनमपि मन्द- मन्दं बभूवेव । अथ कयाऽपि प्रबलया शक्त्या मम चेतसि "सिद्धोऽयं महात्मा स्वेच्छाशक्तिमहिम्ना मम पुरः किमप्यद्भुतं दृश्यमवश्यमुपस्था- पयिष्यति” इति विश्वासो दृढमाहित इव । सहसा मया तस्मिन् मृत्खण्डे किमपि परिवर्तनमनुभूतम् । महात्मनः कथनानुसारमेव तस्य मृत्खण्डस्य पारदर्शककाचवात्मना शनैः शनैः परिणतिरनुभूयते स्म । यावदहं मन्त्र- मुग्ध इव कौतुकमिदं पश्यन् “किमसौ मे दृग् भ्रमः" इति वितर्कयामि, तावदेव मया दष्टम् स मृत्खण्डः काप्यन्तर्हित आसीत् तत्स्थाने तावदा- कार एकः काचगोलः पुरः स्थितः । अन्तर्निर्मले तस्मिन् तदाधार- त्रिपादिकाकाष्ठमालिन्यमपि प्रतिफलितं व्यलोकि । किं मम नयने मां वञ्चयतः, विकृतं वा मे शिरः, यदहं वस्तूनि विकृतानि पश्यामि । सकृ न्नयने निमील्य पुनरुन्मील्य च दृष्टम्, तदेव दृश्यम् । चिन्तितं च–“किं स महात्मा मम सखा मेघश्यामश्चेमं मृत्खण्डमहमिव काचगोलं पश्यतो वा ” परन्तु चेष्टमानेनापि मया तयोर्मुखावलोकनार्थं नयने प्रेरितुं न पारितम् । काचगोलान्नयने अपसारयितुं न मे शक्तिरासीत् । कापि प्रबला शक्तिर्मम नयने काचगोलादपसारयितुं न ददातिस्म । तस्मा- त्काचगोलात्किमपि पीताभं मन्दमन्दं ज्योतिरपि निःसरत्प्रतीतम् । येन स काचगोलस्तदन्तर्गतं च दृश्यमेव केवलं प्रकाशितं भवेत् तथाविधं मन्दं ज्योतिस्तदासीत् । सहसा मया चिन्तितम्-“नूनमिदमिन्द्रजालम् , ऐन्द्रजालिकोऽयं महात्मा मां वञ्चयितुं चेष्टते । उच्चैरुद्घोष्य बाढमस्य पाखण्डमहं प्रकटयेयम् ।” इत्थं विचिन्त्य उच्चैरुद्घोषयितुं चेष्टमानस्य मे कण्ठनलिका केनाऽप्यवरुद्धेव जाता । नैकोऽपि शब्दः कण्ठाद्बहिरुद्गच्छ- तिस्म । बलादिव केनापि प्रेरिता मम दृक्शक्तिश्चिन्ताशक्तिश्च पुनरपि तस्मिन काचगोले एव दृढमेकाग्रतामगाहतं । निमेषानन्तरमपश्यम्- तत्र काचगोलाभ्यन्तरे धूम इव समुद्गच्छतिस्म । स एव धूमस्तदन- न्तरं विशालकुट्टिमात्मतां गृहस्वरूपं च दधार । यथा कश्चिच्चलचित्रपटेषु विविधानि दृश्यानि स्पष्टं पश्यति, तथैवाहं तत्र कस्यापि धूमशकटीविश्रा-