पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/18

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
दिव्यदृष्टिः

भवेदस्य सिद्धता । परन्तु एतत्प्रश्नोत्तरसत्यता कथं परीक्ष्येत ? उत्तरप्रथ- मांशपरीक्षा तु आगामिनि पक्ष एव भविष्यति । द्वितीयांशपरीक्षा त्वेक- वर्षानन्तरम् । यद्यनेन मम भाविन्याः पत्न्याः नामधामस्वरूपादिकं व्रक्ष्यते, तर्हि तदप्येकवर्षानन्तरं सुपरीक्षितं भवेत् । यद्येकवर्षानन्तरं महात्मन उक्तिर्वितथा प्रमाणिता भवेत्, तदाऽहं किं कुर्याम् ? तदानीं कुत्र भविष्यत्यसौ महात्मा । संसारविरक्तो महात्मा मम भाविन्याः पत्न्या रूपमाकृतिं च कथं वर्णयितुं प्रभवेदित्यपि महत्कौतुकास्पदम् । अद्याप्यसौ तूष्णीमेवास्ति । मन्ये उत्तरं कथं देयमित्येव चिन्तयति ।"

 सहसा महात्मनः शरीरं किञ्चिञ्चलितमभूत् । दीर्घः श्वासो विसृष्ट- स्तेन । मत्प्रश्नस्योत्तरमवधारितमिति प्रतीयते स्म । मामनु नयने प्रेर्यं स माह-“वत्स ! किं त्वमात्मनः प्रश्नस्य कृत्स्नमुत्तरमधिजिगमिषसि ?

 मयोक्तम्-“यदि भगवानपरिचितेऽपि मयि द्यां विधाय प्रभोत्तर- प्रदानायासं न गणयिष्यति---"

 सोऽब्रूत---“यद्येवम्, तर्हि पश्य तस्मिन् कोणे भूयानस्ति मृत्तिका- राशिः, तत एक महान्तं खण्डमादाय मत्समीपमानय’ ।

 अहं मनस्येव व्यतर्कयम्--किं करिष्यति महात्मा मृत्तिकाखण्डेन । अहं मृत्खण्डमुपानयम् । स जगाद्-"इमां त्रिपादीमात्मनः पुरः स्थापथित्वा तदुपरि मृत्खण्डं निधेहि" ।

 मया तथाऽनुष्ठाय स्वस्थाने समुपावेशि ।

 अथ महात्मा वदति स्म-"अवधेहि वत्स ! कुत्रत्या कीदृशी का च कदा ते भार्या भविष्यतीति तव प्रश्नोऽस्ति । यदि त्वं स्थिरया धिया शान्तेन चेतसा च चिन्तयितुं शक्नोषि, तर्हि सम्भवतः स्वप्रश्नस्य स्वयमेवोत्तरं दातुं प्रभविष्यसि । यतः प्रत्येकं मनुष्यः स्वेच्छाशक्तिमहिम्ना ऽद्भुतादुतान्यपि कर्माणि कर्तुं शक्रोति । आत्मशक्तेः परं किञ्चिदपि नास्ति । त्वमात्मनश्चित्तमेकाग्रं कृत्वा सावधानममुं मृत्खण्डम्पश्य, सम्भवत आत्मनो भाविन्याः पत्न्याश्चित्रमत्र द्रक्ष्यसि ।"

 "किमसौ महात्मा विक्षिप्तोऽस्ति ! मृत्खण्डे कस्याऽपि चित्रं कथमहं द्रष्टुं शक्नुयाम्' इत्यहं साश्चर्यमविश्वासपूर्णेया दृशा महात्मानमनु निरवर्णयम्। |