पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/17

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
दिव्यदृष्टिः

 मेघश्यामस्य पुरो मया प्रतिज्ञातमासीत् यन्महात्मनः पुरः सभ्यता- मनतिक्रम्यैव वर्तेय इति । अत एव मया कथंचिदात्मानमवरुद्धय मुखाग्र- मागतोऽप्यट्टहासप्रवाहो बलान्निवर्तितः । मया मनसि चिन्तितम्-नूनं विक्षिप्त एवाय महात्मा । किमिदं सम्भवति, यदागामिनि पक्षे मम विवाहो न भवेत् । कुतो न भवेत् ? सर्वः प्रबन्धः सनद्धः । कन्यका श्रपि निश्चिताः । मुहूर्तोऽपि निश्चितप्रायः किं तर्हि प्रतिबन्धकं विवाहे ? महामनेदृशी शिरःपादरहिता भविष्यदर्था वाक्कथमभिहिता ? निश्चित- रूपेणासत्या वागियम्। मयाऽपि सयत्नमेषाऽसत्या विधास्यते । कृतक- गम्भीराकृतिर्भूत्वाऽहमवोचम् -“भगवन् ! कृपया भगवतां यथेदमभिहितम्, तथाऽन्यदपि किंचिदुच्यताम् । मम विवाहः कदा भविष्यति ? कुत्रत्या कीदृशी का च भवेन्मम भार्या ? भगवतो वचनं श्रुत्वा सत्यम- हमाश्चर्यसागरे मज्जामि । वाञ्छामि च भगवदनुग्रहेण मम विवाहविषये सर्वमपि भविष्यदर्थमवगन्तुम् !'

 महात्मना मम प्रश्नस्योत्तरं त्वरितं न प्रदत्तम् । प्रश्नं निशम्य स किञ्चित्सम्भ्रमे पतित इव लक्ष्यतेस्म । नेत्रे निमील्य क्षणं विचारयान्नासीत् । अहमेकाग्रदृशा तन्मुखं निरवर्णयम् । मेघश्याममनु दृशौ प्रेर्य मया निभालितम् यत्सोऽपि महात्मनो वदने दत्तैकाग्रदृष्टिरासीत् ।

 महात्मा मामपृच्छत्-“वत्स ! तव भाविन्या भार्याया रूपमाकृतिं चाहं वर्णयेयम्, तस्या नाम निवासस्थानं चाहं कथयेयमिति त्वमभिप्रैषि किम् ?"

 मयोक्तम्-“आम् भगवन् ! भवादृशां दिव्यदृशां सिद्धपुरुषाणां सर्वमेवाऽपरोक्षं किल । अस्माकं तु भविष्यदर्थं सर्वोऽपि तिमिराच्छन्नः प्रतीयते । भगवान् दिव्यदृशा सर्वं ज्ञातुं समथ इति पृच्छामि । यदुक्तं भगवता, तथैव ममाभिप्रायोऽस्ति ।’’

 ततः परं स महात्मा न किञ्चिदब्रूत । स्थिरासनो नासाग्रदृष्टिः सन विचारयामास । तदानीं महात्मनः शरीरमेव तत्रासीत्, मनस्तु कुत्राप्यन्यत्र विचरितुं गतमिव प्रतीयतेस्म । आवयोरेव श्वासप्रश्वासशब्दः प्रचलन्नासीत् । कुटीरस्य बहिः भगवती जह्नु तनया निःशब्दं प्रवहतिस्म । सर्वतः शान्तमासीद्वातावरणम् । महात्मानमित्थं भूतं दृष्ट्रा मम मनसि विविधा विकल्पाः प्रादुरभूवन्-“किमसौ महात्मा मम अस्य किमुत्तरं देयमिति चिन्तयति । यद्यसौ मम प्रश्नस्य सम्यगुत्तरं दास्यति तर्हि विश्वसनीया