पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/14

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
दिव्यदृष्टिः

((rule}}

तथैव परिगृहीत. । विचारेण यच्चेतसि समायातं तत्तस्मै कथितम् । केनाप्यहं वास्तविको ज्ञातेति गृहीतोऽस्मि । केनापि च धूर्तः पाखण्डीति, मम दृष्टौ तु तावुभावपि समानावेव । यदि भवानपि मां परीक्षितुमेव समायात स्तर्हि तत्स्पष्टमभिधीयताम, न ममात्रेषदपि क्रोधो वैरूप्यं वा भवेत् । प्रत्युत भवतः सत्यानुरक्तिं दृष्टा बाढमहं प्रसीदेयम् । तथागतेपि व्यतिकरे यथासम्भवमहं भवतः शङ्काः समाधातुं पयतिष्ये ।’  महात्मनो वचनानि यथार्थानि हृदयं प्रविशन्ति चासन् । अश्वासितं चासीन्महात्मना-यत्कस्यामप्यवस्थायां तेनास्मच्छङ्काः समाधा- स्यन्त इति । इत्थमवस्थायाम्, एवं स्फुटमभिहिते सत्यपि, मनोगतगोपन- मसत्यभाषणं वा न मे रोचतेस्म । मया विनीतभावेनोक्तम्---

 “अहमेकमर्थं ज्ञातुमिच्छामि, येन मम भविष्यजीवनस्य प्रगाढः सम्बन्धोऽस्ति । यदि भगवता स्वकीयस्थिरविचारशक्तिद्वारा तद्विषये यथार्थमुत्तरं दीयते, तर्ह्यहमुपकृतो भवेयम्। इदमपि च नाहं गोपयामि, यद्भगवता मम प्रश्नानां यथार्थमुत्तरं दातुं शक्यते न वेत्यपि परीक्षितु- महमिच्छामि । पर्यवसाने भगवतः कथनानुसारमेव यदि फलं घटेत, तर्हि मम महात्मनां त्रिकालदर्शित्वे विश्वासो भवेत् । यन्मम मनोगत- मासीत् तन्मया स्पष्टं कथितम् । एवं कुर्वता मया यदि धार्ष्ट्यमनुष्टि- तम्, तर्हि तत्क्षम्यतां भगवता ।"

 महात्मा मन्दं मन्दं जहास । मदागमनात्प्रभृति पथम् एवायमवसरो मम महात्मनो निर्विकारे वदने मन्दस्मितरेखादर्शनस्य । स आह “वत्स ! निश्छलं सर्वं मनोगतं स्पष्टमभिदधानं त्वां दृष्ट्वा प्रसीदामि । मम त्वेतेन महान् परितोषोऽस्ति, यत्त्वया स्वमनोगतो वास्तविको भावो न निह्न तः । किन्तु त्वयेदमूवश्यमवगन्तव्यमू, यन्मयाऽऽत्मन एकान्तजीवने मनननिदिध्यासनादिभिर्यद्यपि हिरण्यगर्भसर्गस्य बहूनि दुर्ज्ञेयानि रहस्या- ण्यवगतानि सन्ति, तथाऽपि सवोपरिष्टद्वर्तमानस्य लीलामयस्य परमा- त्मनोऽद्भुतानां लीलानां शतममप्यं शमवगन्तुमहं न पारयामि । इच्छा- शक्तिमहिम्ना सिद्धा महात्मानो यत्कर्तुं पृभवन्ति, तदहमंशतो जानामि, स्वयमपि च समुचितेऽवसरे विराडिच्छाशक्त्या सह सङ्कुचितां निजेच्छा- शक्तिं संयोजयितुं चेष्टे च । तथाऽप्येतावतैव सामर्थ्यकणलाभेन नाहमा त्मानं सिद्धं मन्ये, न च कथमपि गर्वं करोमि । भवतः पुरः परीक्षाप्रदा- नेऽपि न ममाधिकारोऽस्ति । भगवता शतवर्षमितमेव परमायुर्मानवेभ्य: