पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/13

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
दिव्यदृष्टिः

ष्यदर्थमन्वेष्टुं पूयतेत, तर्हि तस्य भविष्यदर्थावगमे न किञ्चिदपि प्रतिब- न्धकं पश्यामि, अवश्यं तथाविधेन भविष्यदर्थज्ञानं सुलभम् । सांसारिक जनापेक्षया सर्वथा विपरीतैवास्माकं संसारत्यागिनां साधूनां स्थितिः । अस्माकं तु कस्यापि शुभेनाशुभेन वा न कोऽप्यर्थ, कस्यापि प्रसाद् विषादाभ्यां नास्माकं सुखं दुःखं वा सम्भवति । संसारे च नास्माकं काऽपीच्छा, न च कुत्राऽपिलालसा, क्वापि च वयं नासक्ताः स्मः, अस्माकं विवेके न किमपि मालिन्यं भवति, अतो वयं भविष्यतोऽर्थस्य वास्तविकं रूपं द्रष्टुं पभवामः । यदि भवादृशेष्वस्मादृशेषु चास्ति कोऽपि विभेद, तर्हि अयमेव स । भवतु कथयतु भवान् केनार्थेन समुद्विग्नं भवतश्चेतः, कं वा भविष्यदर्थं ज्ञातुमिच्छति भवान् । यद्यहं प्रभवेयं वक्तुम, तर्हि ध्रुवं वक्ष्यामि"।

 एवमुक्त्वा महात्मा तूष्णीं बभूव । मेघश्यामो मां साकूतमपश्यत् । अहं व्यचिन्तयम-मम प्रश्नं केन रूपेण महात्मनः पुर उपस्थापयेयम् । यथा मम प्रश्नस्योत्तरणमहात्मनो दुष्करं भवेत् यथा च महात्मनो वास्तविकी वैदुषी च प्रकटिता भवेत्। एतावता संलापेनेदं तु निश्चितमासीत् यत्स महात्मा विचारशीलो विद्वानप्यस्तीति । तेनैतावदुक्तमशेष यथार्थ चित्तप्रत्यययोग्यं चासीत् । शनैः शनैर्ममापि चेतसि महात्मनो विषयो श्रद्धावृत्तिरुदेतुमारभत । महात्मानं पाखण्डिनं प्रमाणयितुं परीक्षितुं, तस्य मिथ्यावादित्वं समर्थयितुं, ‘सम्प्रति वास्तविका- महात्मानो द्वलभाः सन्तीति’ तत्वं मेघश्यामस्य चेतसि प्रवेशयितं च ममात्रागमनमभूत् । महात्मनो वचनश्रवणमात्रेणैव तत्र श्रद्धाभावोद्वहनं तावतैव तस्य महात्मतायाः समर्थनं च ममेच्छायाः स्वार्थस्य च प्रतीपमासात् ।

 मां विचारयन्त दृष्टा महात्माऽब्रूत-“पश्य वत्स ! ममात्रागतस्यैौको मासो व्यतीतः । अत्रान्तरे सहस्रशो जना मम समीपमुपागताः तेषु प्रायः पत्येकं विभिन्नार्था श्रासन् । कश्चित् सरलचेतसा सदुपदेशं श्रोतुम्, दुखितः कोऽपि व्यथितं स्वहृद्यमाश्वासयितुं, कोऽपि केवलं मां परीक्षितं मेव समागत आसीत् । तेषु कास्याप्युपरि कोपं कर्तुं, सन्तोषं च प्रदर्शयितं न किमपि निदानमस्ति मदन्तिके । अहं हि लोकस्य भावना यावज्जीवना- भ्यस्तान् दुरभिनिवेशांश्च क्षणिकेन सहवासेन परिवर्त्तयितुं सर्वथाऽसमर्थ एवाऽस्मि । यः खलु येन रूपेण समागतः मया स तेनैव रूपेण