सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
५९
परप्राप्तिः


भान्सहाश्नुते, न यथोपोधिकृतेन स्वरूपेणाऽऽत्मना जळसूर्यकादिवत्प्रतिबिम्ब- भूतेन ससरिकेण धर्मादिनिमित्तापेक्षश्चक्षुरादिकरणपेक्षांश्च सर्वान् कामा न्पर्यायेणाश्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन, सर्वगते, सर्वां त्मना, नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षांश्चक्षुरादिकरणनिरपेक्षश्च सर्वान्कामान्सहैवाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वलेखेन । तद्धि वैपश्चित्यं यत्सर्वज्ञत्वं, तेन सर्वक्षस्वरूपेण ब्रह्मणाऽनुत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ।


 सर्वं एव वल्लघथं‘ ब्रह्मविदाप्नोति परम् ’ इति ब्राह्मणवाक्येन सूत्रितःस उत्तग्रन्थसंगतिः च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातःपुनस्तस्यैव वि स्तरेणार्थनिर्णयः कर्तव्यः इत्युत्तरस्तद्वत्तिस्थानीयो ग्रन्थ आरभ्यते—‘तस्मा द्वा एतरमात्’ इत्यादिः।

 तत्रं च ‘सत्यं ज्ञानमनन्तं ब्रह्म ’ इत्युक्तं मन्त्रादौ; तत्कथं ? सत्यं ५’ अनन्तं ब्रह्मण आनन्यप्रपञ्चः चेति? अत आह।तत्र त्रिविधं ह्यानन्त्यं–देशतःकालतःवस्तु


 अवियावस्थायां ये सुखविशेषा हिरण्यगर्भायुपाधिषु भोग्यत्वेनाभिमताः, तेषां सर्वेषां बला नन्दाव्यतिरेकाव , ब्रवीभूत विद्वान्सर्वानैवाऽनन्दानश्वत इत्युपचारेण बहुवचनमित्यर्थः॥


वृत्तमनुवदत्युत्तरग्रन्थावतारणाय -सर्वं एवेत्यादिना ।


(१) न तथा यथावा. वि. पाठः। (२) सर्वपदार्थानां त्रिधा परिच्छिन्नत्वात्, ब्रह्मणोऽपि वस्तुत्वेन विभक्तत्वात् , रज्जुसर्पवदेव सत्यत्वायोगात्, असत्यत्वादेव जडत्वात् , कोशपंचकविलक्षणं सत्यशानानन्तानन्दा त्मकं निर्विशेषं निर्भयं ब्रह्मात्मेत्युक्तो मन्त्रार्थो न सिध्यति–इति चेत्, न--सर्वजगत्कारणत्वाद्रह्मणस्त्रि- विधमानन्यं सिध्यति; अतश्च सत्यत्वं, शानवं च तस्मिन्नुपपद्यते । तच्चानन्त्यं सर्वकारणत्वकृतमनन्तरमेव प्रकटीक्रियते । (३) अविद्यावस्थायामुपाध्यवच्छेदाद्विभक्तवदभिव्यक्तेर्बहूक्तः।

दृष्टे तस्मिन्परप्राप्त्या विदुषोऽतिशयोऽत्र कः । इति चेद्युगपत्सर्वकामाप्तिरधिका भवेत् ॥ २३ ॥
काम्यन्ते विषयानन्दा निखिलैः प्राणिभिः सदा । ब्रह्मानंदस्य ते सर्वे देशा इत्यपरा श्रुतिः ॥२४
आनन्दहेतवो बाह्या विषया इति विभ्रमात् । कामयन्ते बहिर्देष्टया विषयान्प्राणिनोऽखिलाः ।२५।
अभीष्टविषये लब्धे धीः प्रत्यावृत्य तम्। ब्रह्मानंदं क्षणं भुक्त्वा बाहुं कामयते पुनः।। २६ ।।
क्षणिकत्वालेशतास्य पूर्णस्याप्युपचर्यते । विषयानंदता भ्रान्त्या ब्रह्मानन्दो हि वस्तुतः ।। २७ ॥
अन्तर्दष्टया विवेकी तु ब्रह्मानन्दं सदेक्षते । अन्तर्भवन्ति क्षणिकाः सर्वे तस्मिन्निरन्तरे ।। २८ ॥
तत्वविद्ह्मरूपेण सर्वान्कामान् सहाश्नुते । इत्येषोऽतिशयो ब्रह्म-प्राप्तिरूपं फलं श्रुतम् ।२९ ॥

                                   तैत्तिरीयकविश्वप्रकाशः