पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


सोऽनुते सर्वान्कामान्सह । ब्रह्मणा विपश्चितेति॥

यो वै स बहिश्च पुरुषादाकाशः यो वै सोऽन्तः पुरुष आर्काः योऽयमन्तर्युद्य आकोशः इति श्रुत्यन्तरात्मसिद्धे हार्देस्य ब्योङ्कः परमत्वम् । तस्मिन्ह्याद्री व्योम्नि या बुद्धिर्तेझ, तस्यां निहितं बह-तहृत्य वीि विक्ततयोपलभ्यते-इति । न ह्यन्यथा विशिष्टदेशकालसंबं न्धोऽस्ति ब्रह्मणःसर्वगतत्वान्निर्विशेषत्वाच्च

 स एवं ब्रह्म विजानन्, कोमेत्याह-अश्नुते . भुङ्क । कि मस्मदादिवतुपुत्रस्वर्गादीन्पर्यायेण ? नेत्याह-सह युगपदेकक्षणोपारूढानेवैकयोपलब्ध्या सवितृ प्रशवान्नित्यया, ब्रह्मस्वरूपाव्यतिरिकया, यामवोचाम ‘सत्यं ज्ञानमनन्तः इति । एतत्तदुच्यते—ब्रहमणा सहेति । ब्रह्मभूतो विद्वान्ब्रह्मस्वरूपेणैव सर्वान्का


 यदुकं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राह-यो वा इति । नतु निहितशब्दः स्थितिं भूते, कथं विविकतया स्फुटतयोपलम्भाभिप्राये ण व्याख्यायते ? तत्राऽऽह-न हीति। अन्यथेति । उपलभव्यतिरेकेण


(१ ) छां. ६. ३. १२. ७-८-९. (२) अ विद्यध्यस्तबुद्धिसम्बन्धकृतकर्तृत्वादिधर्मवत्वादात्मनो बुद्धौ निहितवोक्तिः । अथवा सात्विकबुद्धिवृत्त्या “ ब्रह्मास्मि ’ इतिवाक्योत्थया ब्रह्मणो दर्शनाद्र बुद्धिस्थमुक्तम् । (३) तद्यावृत्त्या-वाणीविलासमुद्रितपुस्तके पाठः । (४) निरवशिष्टन् कामान् भो’-इति पाठः (५) सर्वशत्रह्मरूपेण । इयं तृतीया ‘पुत्रेण सहऽऽगतः -इतिवन्न सहयोगलक्षणा, अपितु ‘श्वेतच्छत्रेण राजानमद्राक्षीत् ’ इत्यादिवत् , इत्यंभावे तृतीया । सहशब्दस्य युगपदर्थत्वेऽपि यौगपद्यस्य भेदसापेक्षवा दप्रसक्तिरितिचेत् न, ’अहं ब्रह्मास्मि ’ इति ज्ञानादज्ञाननिवृत्या तत्कार्यासत्यपरिच्छेदादिनिवृत्तेः साक्षा कृतब्रह्मा ब्रह्मविदात्मरूपेण ब्रह्मरूपेण च सर्वानानन्दान् यौगपद्येनानुभवति

तादृग्ब्रह्म कथं विद्यादिति चेदभिधीयते । गुहायां परमे व्योम्नि स्थितं ब्रह्म तु वेद यः ॥ १३
देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः । ततः कर्ता ततो भोक्ता गुहा सेयं परंपरा ॥ १४
पंचकोशगुहायां यदनं कारणं स्थितम् । तव्द्योम परमं तस्मिन्निगूढं ब्रह्म तिष्ठति ॥१५
जीवे चैतन्यमेवात्र निगूढमिति चेत्तदा। तथैव ब्रह्मतां विश्वज्जीवत्वभ्रान्तिहानये ॥ १६ ॥
स्वतो ब्रह्मव चैतन्यं जीवत्वं प्राणधारणात् । कोशतादाम्यविभ्रान्त्या भात्यस्य प्राणधारणम् ॥१७॥
वक्ष्यमाणविवेकेन तत्तादाम्यमपोह्यते मह्मसात्कृतिस्त्वीदृग्बोधेनैव न चान्यथा १८
बाह्य जगत्पंचकोशांश्चापोह्यान्तर्मुखस्य धीः । ब्रह्म साक्षात्करोत्येव सर्वोपाधिविवर्जितम् ।। १९
सोपाध्येव बहिर्जुष्टया भाति ब्रह्म न तावता । अपैति जीवता तस्मादन्तदंष्टयैव बुध्यताम् ।। २०
बहिर्दष्टिर्जगज्ञानं तस्य सत्यवधीरपि । विवेकात्सत्यताऽपैति जगज्ञानं तु योगतः ॥ २१
बर्हिर्टष्टावेपेयातामन्तर्देष्टया यदीक्ष्यते । निगूढं जीवचैतन्यं तद्वति प्रपश्यति ॥ २२