पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तति । तद्यथा-देशतोऽनन्त आकाशःनहि देशतस्तस्य परिच्छेदोऽस्ति न तु काळतश्चाऽऽनन्त्यं वस्तुतश्चाऽऽकाशस्य । कस्मात्? कार्यत्वात् । नैवं ब्रह्माण आकाशवत्कालतोऽप्यन्तवस्वम्, अकार्यत्वार ; कार्यं हि वस्तु कालेन परिच्छि द्यते, अकार्यं च ब्रह्म, तस्मात्कालतोऽस्यानन्त्यम् । तथा वस्तुतः । कथं पुनर्व स्तुत अनन्यः १ सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्यान्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्तद्वस्त्वन्तरान्निवर्तते; यतो यस्य बुद्धेर्निचैतिः, सं तस्यान्तः । तद्यथा गोत्वबुद्धिवत्वान्निवर्तेत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति --स चान्तो भिन्नेषु वस्तुषु इष्टः नैवं ब्रह्मणो भेदःअतो वस्तुतो ऽप्यानन्त्यम् ।

 कथं पुनः सर्वानन्यत्वं ब्रह्मणः इति?--उच्यते, सर्ववस्तुकारणत्वात् सर्वेषां हि वस्तून कालाकाशदूनि कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवस्व मिति चेत्, न;अनृतत्वात्कार्यवस्तुनः—नहि कारणव्यतिरेकेण कार्यं नाम वस्तु तोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत; ‘वाचारम्भणं विकारो नामधेयं मृत्तिके स्येव सत्येम्’, एवं ‘सदेव...सत्यम्’ इति श्रुत्यन्तरात्। तस्मात् आकाशादिका रणत्वात्–देशतस्तावद्नन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः तस्य चेदं कारणं, तस्मात्सिद्धे शत आत्मन आनन्त्यम्--न ह्यसर्वगतात्सर्व गतत्पंद्यभानं लोके किञ्चिदृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः तथाऽकार्यत्वात्कालतः, तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः । अत एव निर तिशयसत्यत्वम् ।


 आकाशादिकारणत्वाभिधानेनाऽऽनन्त्यऍपञ्चः क्रियत इति समनन्तरग्रन्थतात्पर्यं दर्शयितुं पूवोंक्तेष्वर्थविशेषमनुवदति--तत्र चेति । वस्तुत आनन्त्यं व्याख्यातुं वस्तुनोऽन्तवस्वं ‘तावदाह--भिन्न हीत्यादिना ।

 विस्तरेणोक्तमानन्यं संक्षिप्याऽऽह--तस्मात्सिद्धमिति । देशतोऽनवच्छिन्नस्याऽऽकां• शस्य कारणत्वाब्यापकत्वानिरतिशयमात्मनो आनन्त्यम् , अकार्यत्वाच्च कालत देशत आ नन्त्यम् , तवतो व्यावर्तेत तस्य पृथगसवत्, कार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तुतोऽप्या नन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्यादेव सत्यत्वमपि सिद्धम्, अन्तवत एवं रज्जुसर्पादिवदसत्यत्वादित्यर्थः।


(१) प्रसक्ता, प्रसक्तव°-–पाठौ (२) विनिवृत्तिः-पाठः। (३) छां. उ, ६ १. ४. (४) तुलय

यदानन्यं प्रातिशाय श्रुतिस्तसिद्धये जगौ । तरकार्यत्वं प्रपंचस्य तद्धैत्यवधारय ।।” वाक्यवृत्तौ ३३.