सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


 सत्यादिशब्दा न परस्परं संबध्यन्ते परार्थत्वात्, विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्द: परस्परं निरपेक्षो ब्रह्मशब्देन संबध्यते-'सत्यं ब्रह्म', 'ज्ञानं ब्रह्म', 'अनन्तं ब्रह्म' इति ।


 पुन विशेषणविशेष्यभावपक्षमवलम्ब्याह-संत्यादिशब्दा इति । ‘ सत्यं ब्रह्म’ इत्यु के, जाड्यव्यावृत्तिः परिच्छछेदव्यावृत्तिश्च ययपि लभ्यते, जडस्य परिच्छिन्नस्य सर्वस्यातृत त्वा; ‘शानं ब्रह्म’ इत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्येभ्यते स्वप्रकाशस्य बाधाविषयत्वात्, प रिच्छेदग्राहकप्रमाणाविषयत्वाच; लक्षणमपि चैकैकं वैकल्पिकमदुष्टम्; ~तथाऽपि मन्दम तिव्युत्पादनाय स्यात् ।


नुयोगे चानुवृत्तिशनासाधारणं कारणमित्यभिधानीयम्-इति शानसिद्धौ जातिसिद्धिः, तत्सिद्धौ च तद्विशेषभूत शनवस्य सिद्धि, तत्सिद्धौ च शनसिद्धिरिति चक्रकम् । आदिशब्दात्तथैव ज्ञानसिद्धौ शानत्वसिद्धिः, तसिद्धौ च ज्ञानसिद्धिः-इत्यन्योन्याश्रयः । शनसिद्धौ ज्ञानसिद्धिरित्यात्माश्रयश्चेति । तथा लक्षणानि लक्ष्या धिकरणानि वाच्यानि; ततश्च किमधिकरणमिति प्रश्ने इहप्रत्ययविषय इति कथनीयम् ; कः प्रत्ययः ?–इत्य- नुयोगे च प्रत्ययत्वयोगीति वाच्यम् ; (के प्रत्ययत्वम् ?–इत्यनुयोगे च सुखाद्यवृत्तिरारमविशेषगुणवृत्तिजा तिविशेष इत्युत्तरम् ३ क आमा ? इति जिज्ञासायामात्मत्वाधिकरणम् , पुनरधिकरणमिहाप्रययविषय इति चक्रकं पूर्ववदेवान्योन्याश्रयारमाश्रयौ चेत्यादिः इति तत्र टिप्पणी । शाताधिकरणेति शंकरमिश्रसंमतः पाठः । तदर्थस्तु ‘लक्षणेन हि गन्धवत्त्वादिना ज्ञाते लक्ष्ये पृथिवीस्वरूपेऽधिकरणे प्रतिबन्ध-( व्याप्ति ) बलेन व्यव हाररूपमितरभेदरूपं वा साध्यं साधनीयम् । तत्र लक्षणज्ञानमन्यलक्ष्यसाधारण्येन भवदप्यकिञ्चित्करमिति व्यावृत्ततया तज्ज्ञानमुपेयम्; तद्यदि लक्षणव्यावृत्तिर्लक्ष्याधीना, तदाऽन्योन्याश्रयः ; लक्ष्यपरतन्त्रलक्षणा न्तराधीनत्वे चक्रकम् ; लक्षणे लक्षणान्तरम्, तत्रापि लक्षणान्तरमित्यपरावृत्तावनवस्था; एवं भवदप्याकि छिन्चत्करमिति । एवं जलादिसाधारण्येन शतायां पृथिव्यामितरभेदसाधनमकिञ्चित्करमितिव्यावृन्तायां तस्यां तत्साधनं वाच्यम्, तव्द्यवृत्तियदि प्रकृतलक्षणाधीना, तदान्योन्याश्रयः; लक्षणान्तरेण चेतदा प्रकृतलक्षणा नुपयोगः, तदपि लक्षणं व्यावृत्तायामेव तस्यामित्यधोऽधो धावन्त्यनवस्था । एवं प्रतिबन्ध( व्याप्ति ) ज्ञानसा ध्यशनादावप्यूह्यम् ” इति शंकरमिश्रव्याख्यायाम् ।

 (१) लौकिकदृष्ट्यनुसारिणमेकलक्षणपरत्वपक्षमुपपादयति-सत्यादिशब्दा इति। लोके हि सत्यमित्युक्ते व्यव हाराबाधितमात्रं प्रतीयते, न तु ब्रौव; एवं शानमित्युक्ते वृत्तिसंवलितमेव प्रतीयते; अनंतपदेन च कालाद्यपरि च्छिन्नमेव । अतोऽतिप्रसक्तार्थकवेन प्रत्येकं लक्षणत्वासंभवाद्विशिष्टे शक्तानां पदानांशुद्धे लक्षणया वृत्ति मङ्गीकृत्यैकलक्षणपरत्वमुक्तम् । अन्यव्यावृत्तिमुखेनैकार्थपर्यवसायिनां पदानां लक्ष्यार्थभेदेऽपि व्यवच्छेद्यभेदा पुनरुकार्थसंभवात्, न पदान्तरवैयौंम् । तत्रैतावान् विशेषो वार्तिककृद्भिरुक्तसत्यशानपदे सत्यत्वं ज्ञान त्वं विधायअर्थादितरव्यावृतिं बोधयतः; अनंतपदं तु साक्षादेव परिच्छिन्नतां वारयतीति । पवं सति धर्म धार्मिभावादिरूपो भेदो न प्रसज्यते । यतः सत्यपदं ब्रह्मणि श्रमसक्तमसत्त्वं वारयति, ज्ञानपदं जडत्वं, अनन्तपदं तु परिच्छिन्नत्वं वारयति, तत एवं व्यावृत्तिपरत्वात् ‘ नील्नुपलम् ’ इत्यादिवाक्यस्य यथा शुण गुणिभावसंसर्गपरत्वं विशिष्टपरत्वं वा भवति, तथाऽस्य वाक्यस्य न बोध्यम् , किं त्वखण्डार्थपरस्वमेवेत्यर्थः। तुळय-संक्षेप. श. १.१७८-१८८.