सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
४९
ब्रह्मलक्षणम्


गात्; यथाऽसावेक आदित्य इति, तथैकमेव च ब्रह्म, न ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पळवत् । न, लक्षणार्थत्वाद्विशेषणाना:-नायं दोषः । कस्मात्? यस्माल्लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव । क पुनर्लक्षणलक्ष्य योर्विशेषणविशेष्ययोर्विशेष इति? उच्यते—समानजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य, लक्षणं तु सर्वत एव, यथाऽवकाशदात्राकाशमिति लक्षणार्थं च वाक्यमित्यवोचाम ।


इति नीलं विशेषणं घटते; न तथा सत्यत्वादिकं व्यभिचरद्रबान्तरं लोके प्रसिद्धम्; ततः सजातीयस्य व्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः । विशेषणविशेष्य- भावस्य तात्पर्येणाप्रतिपाद्यत्वात्अय्याकृतादिशीयब्रह्मपदार्थव्यवच्छेदेनानिर्वाच्यविशेषणवि शेष्यभावसंभवाद्य, तद्वारेण ब्रह्मलक्षणं विवक्षितमित्याह--नेति । संग्रहवाक्यं विवृणोति नायं दोष इत्यादिना । सर्वत एवेति --सजातीयाद्विजातीयाच-यथा महाभूतत्वेन सदृशभावात्पृथिव्यादेःविसदृशाचाऽऽत्मादेः। आकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः एतदुक्तं भवति--अतिव्याप्त्यादिरहितो व्यावर्तको धम लक्षणं न्यायविशेष इति मीमांस काः । ब्रह्मपदव्युत्पत्तिबलेन यदविशेषतः प्रतिपनं किंचिन्महदस्तीति तत् ‘सत्यं ज्ञानमनन्तम् ‘अनृतजडपरिच्छेदविरोधिस्वरूपम्-इति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्ष णम्;प्रमितिस्तु प्रमाणादेवेति ।तार्किकाःपुनर्मुक्षणं केवळपैतिरेक्यडमानमाचक्षते, तदा लक्ष णादेव स्वभावविशेषप्रमितिः, यथा--गुणवद्व्यमितिलक्षणाखुणाश्रयत्वयोग्यस्वभावविशेषस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति; यद्वा व्यवहारसिद्धिः फलम्--गुणव व्यमिति व्यवहर्तव्यं गुणववान् , न यदेवं न तदेवम्, यथा रूपम ; तथा सत्यत्वादिमद्रन्नतिः व्यवहर्तव्यं सत्यत्वादिमवाद, न यदेवं न तदेवम्, यथा घट इति ; एतच खण्डनयुक्त्यसह मानमपि व्यवहाराङ्गं भवतीति नातीव सुक्ष्मेक्षिका कार्या ।


(१) °योर्वावि°-पाठः । ( २ ) सर्वं हि लक्षणमितरपदार्थव्यवच्छेदकम् ( न्या- वा- १. १. १४); व्यावृत्तिर्यवहारो वा लक्षणस्य प्रयोजनम् । तत्र व्यवहारो ( शब्दव्यवहारः, शब्दशक्तिग्रहः ) लक्षणज्ञानस्य प्रयोजनं, यथासादिमान् गौ–इति लक्षणज्ञाने सति, यं यं सास्नादिमन्तं पिण्डं पश्यति, तं तं गोशब्दवाच्यं प्रत्येति-इति । व्यावृत्तेः प्रयोजनत्वे सर्वे लक्षणं (अभिधेयत्वव्यावर्तकवादिवर्जम् ) व्यति रेकिहेतुर्भवति । एतच्च ‘व्यावृत्तिव्यवहारो वा लक्षणस्य प्रयोजनम् ’ इति परोक्तमेकं पक्षमाश्रित्योक्तम्, न तु स्वमतम्-ऋक्षणवाक्यमात्रस्य सिद्धान्तिभिरखण्डार्थताभ्युपगमात् । तुझ्य संक्षेप. श. १. ५१५-५३०. (३) लक्षणाधीना तावङ्क्ष्यस्थितिः, लक्षणानि चाऽनुपपन्नानि, ज्ञानाधिकरणादिलक्षणनिरूपणद्वारेण चक्रकाश पत्तेः”-इति खण्डनखण्डखाचे प्रथमपरिच्छेदे । तदर्थस्तु किं ज्ञानम् ?-इति प्रश्ने ज्ञानत्वयोगीति निर्वाच्यम्। पुनः किं शनत्वम् ?-इत्यनुयोगे सुखाद्यवृत्तिरात्मविशेषगुणवृत्तिर्जातिीति निर्वाच्यम् । जातिरेव का?-इत्य