पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
[ ब्रह्माआनन्द-वल्ली
तैत्तिरीयोपनिषत्


 सत्यं ज्ञानमनन्तं ब्रह्म’-इति ब्रह्मणो लक्षणार्थं वाक्यम् । सत्यादीनि हि ब्रह्मस्वरूपच्क्षणम् त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः; विशेष्यं ब्रह, विवक्षितत्वाद्धेद्यतया; विशेषणविशेष्यत्वव सत्यादीन्येकविभक्त्यन्ता- नि पदानि समानाधिकरणानि; सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञानं भवति, यद्न्येभ्यो निर्धा रिठम् यथा लोके नलं महत्सुगन्ध्युत्पलमिति ।

 ननु-विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते-यथा नीलं रक्तं चोत्पल लक्षणस्य ऋक्षणम् मिति, –यदा ह्यनेकानि द्रव्याण्येकजातीयान्यनेकविशेषण- योगीनि, तदा विशेषणस्यार्थवत्त्वम्, न कस्मिन्नेव वस्तुनिविशेषणान्तरायो


त्यादिना । सर्वतो व्यावृत्तो यःस्वरूपविशेषः, तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरू- पनिर्धारणाय""एषQदाह्रियत इति संबन्धः। बृहत्वाद्झेति व्युत्पत्तिबलेनास्ति किमपि महद्व स्त्वित्यविशेषेणं प्रतीयते; ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धिरुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीयम्, घटादि विजातीयम् ; तस्मात्सजातीयविजातीयव्यावर्तकतया सत्यादिलक्षणस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधानद्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यम्, इति वाक्यस्य व्यर्थतादोषः परिहृतः । पूर्वत्र ब्रह्मविदित्यनेनाविशेषेणोक्तं वेदनं यस्य ब्रह्मणःतस्य ‘यो वेद निहितं गुहायाम् ’ इत्यनेन प्रत्यगात्मतया वेदनं वक्तव्यमि त्येवमथं चर्तुदाह्रियत इत्याह--अविशेषेण चेति ।

 आपातप्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभजते--सत्यादीनि हि त्रीणी ति । विशेषणार्थानतिव्यदृस्यर्थानि । कुतो विशेषणविशेष्यभावप्रतीतिः? इत्यत आह विशेषणविशेष्यत्वादेवेति ।‘ नीलं महत्सुगन्ध्युत्पलम् ’ इत्यादौ सत्येव विशेषणविशे ज्यभावे समानाधिकरणतयैकविभक्त्यन्तानि प्रसिद्धानि, एतान्यपि च तथाभूतानि- नाना- र्थगतविशेषणविशेष्यभावनिबन्धनानंति गम्यत इत्यर्थः। विशेषणविशेष्यभावस्य फलमाह एवं हीति ।

 विशेषणविशेष्यभावमाक्षिपति-नन्विति । नीलत्वं व्यभिचरदुत्पलं रक्तमपि संभवति,


 (१) तुल्य-सामान्यलक्ष्णं त्यक्त्वा विशेषस्यैव लक्षणं । न शक्यं केवलं वङ्गमितोऽप्यस्यन्वाच्यता श्लो. वा. शब्दपरिच्छेदे २ श्लोकः(२) कर्तव्यम्-पाठः। (३) ब्रह्मणो विशेषाः सत्यादयः, तैर्यदा ब्रह्म विशेषितम् , तदा सत्यादिविरुद्धेभ्योऽसत्यजाद्यपरिच्छिन्नेभ्यो निराकृतं ब्रह्म सिध्यति । यथा नीलमुत्पलम् , रक्तमुपकम्-इत्यादिप्रयोगे व्यक्यन्तरेभ्यो व्यावृतमुत्पळमवगम्यते, तथा यदन्येभ्योऽसत्यादिभ्यो व्यावृत्तमवधा येते तद्वद्-इत्येवं व्यावृत्तत्वे सति, सचिदेकतानं परिपूर्ण तदिति शतं भवति; व्यावृत्तिश्चेन्न शायते, तदाऽ- नृतादिभ्यो व्यावृत्त्यसिद्धेः, न ब्रह्म शातं स्यादित्यर्थः।