सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
४७
ब्रह्मलक्षणम्


(अनुव्याख्यान)

तदैषाऽर्युक्ता । सत्यं ज्ञानमैनन्तं ब्रह्म ।

मयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते; पवमविद्ययाऽऽत्मभूतमपि ब्रह्म- नप्तं स्यात् । तस्यैवमविद्ययाऽनाप्तब्रह्मस्वरूपस्य-प्रकृतसंख्यापूरणस्य, आ त्मनोऽविद्ययाऽनाप्तस्य सतःकेनचित्स्मारितस्य पुनः स्वस्यैव विद्ययाऽप्तिर्ये था—तथा भृत्युपदिष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपप- यत एव ॥

 ब्रह्मविदामोति पूरम्’ इति वाक्यं सूत्रभूतं सर्वंस्य् बल्यर्थस्य । (ब्रह्म अक्तात्पर्यम् विदाप्नोति परम् ’ इत्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थ स्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय(२) अविशेषेण चोक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतयाऽनन्यरूपेण विज्ञेयत्वाय (३) महाविद्याफलं च ब्रह्मविदो यत्परप्राप्तिलक्षणमुक्तम्, स सर्वारमभावः सर्वे- संसारधर्मातीतब्रह्मस्वरूपत्वमेव, नान्यत् इत्येतत्प्रदर्शनय-एषQदाह्रियते-

 तदेषाऽभ्युतेति-‘तत्’ तस्मिन्नेव ब्राह्मणवाक्योतेऽर्थे “ एषा’ जुगयुक्ता ऽऽम्नत ।


संबन्धः। भूतमात्राभिः-भूतांशैः कृता ये बायाः परिच्छिन्नाश्चत्रमयादयःतदात्मदर्शिनं इत्य विद्यया विक्षेपकत्वरूपमुक्तम्; परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्क यस्याः सा तथोक्ता । स्वरूपेऽप्यग्रहणविपर्ययौ भवत इत्यत्र दृष्टान्तमाह-प्रकृतेति । प्रकृ तसंख्यापूरणस्य दशमस्य नवैव वयं वतमह इति विपर्ययः, स्वरूपादर्शने च यथेत्यर्थः । अदर्शननिमित्तामनातिं विविच्य, दर्शननिमित्तामासिं विवृणोति-तस्यैवमिति ॥ आयं ब्राह्मणवाक्यं व्याख्याय, उत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति-ब्रह्मविदाप्नोती


(१) °त्मं-पथुः। ( २) ०मत्व-पाठः।।

श्रीवियारण्यमुनिकृते अनुश्रुतिप्रकाशे तैत्तिरीयकविद्याप्रकाशः

ब्रह्मवर्यां ब्रह्मविद्यां तितिरिः प्राह यामिमाम् । वक्ष्ये सुखावबोथाय क्रीडत्वत्र मुमुक्षवः ॥ १ ॥ दर्शादपितृमेधतेः कर्मभिर्बहुजन्मसु । अनुष्ठितैर्विविदिषा जायतेऽन्तिमजन्मनि ॥ २ ॥ ततो योगं समभ्यस्य संहितोपासनादिभिः । एकाग्रे साधितेऽथास्य विद्यां सुम्नयति श्रुतिः ।। ३ ।। सुत्रात्पूर्वं शन्तिमन्त्र जपायात्रोपवार्णितः । जपेन विना द्वेषाद्याः शम्यन्ति मनसि स्थिताः ॥ ४ ॥ ब्रह्मवित् परमेतीति सत्रं सर्वार्थसुचनात् । ज्ञेयं ज्ञानं फलं चेति सर्वेऽर्थाः खचिता इह ॥ ५॥ ज्ञेयं ब्रह्म तदीया धं झर्न स्याद्झता फलम् । सूत्रव्याख्यानरूपायामृच्येतद्विशदीकृतम् ॥ ६ ॥