पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
[ ब्रह्म-आनन्द-बल्ली
तैत्तिरीयोपनिषत्


षयदात्यन्तिकः संसाराभाव इति । स्वयमेव च प्रयोजनमाह—'ब्रह्मविदाप्नोति परम्' इति-आदावेव संबन्धप्रयोजनज्ञापनार्थम् । निर्ज्ञातयोर्हि संबन्धप्रयोजनयोः, विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम्, "श्रोतव्यःमन्तव्यः,"-इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मविद्-'ब्रह्म' इति वक्ष्यमाणलक्षणम्, वृद्धतमत्वाद्ब्रह्म, तद्वेति विजानातीति 'ब्रह्मविद्'-आप्नोति प्राप्नोति परं निरतिशयम्; तदेव ब्रह्म परम्–न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः, स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्शयति "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इत्यदि।

 ननु सर्वगतं सर्वस्याऽऽत्मभूतं ब्रह्म वक्ष्यति, अतो नाऽऽप्यम्- आप्तिश्चान्यस्यान्येन, परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा; अपरिच्छिन्नं सर्वात्मकं च ब्रह, इत्यतः परिच्छिन्नवदनात्मवच्च तस्याऽऽप्तिरनुपपन्न।

आप्नोतेरौपचारिकत्वम् ब्रह्मप्राप्तिर्नाम स्वरूपाभिव्यक्तिः  नायं दोषः । कथम्?-दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्त्यो:। परमार्थतो ब्रह्मस्वरूपस्यापि सतोऽस्य जीवस्य,भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिन:,तदासक्तचेतसः—प्रकृतसंख्यापूरणस्याऽऽत्मनोऽव्यवहितस्यापि बाह्यसंख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत्-परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणयाऽविद्यया,अन्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्न-


निरतिशयानन्दाभिव्यक्तिर्विवक्षिता, सा च स्वभावानन्दानभिव्यक्तिरूपावियानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः । आयवाक्यस्यावान्तरतात्पर्यमाह--स्वयमेव चेति । विव- यैव केवळ्या मोक्षः साधयितुं शक्यते । ब्रह्मविदितिविशेषणत्संबन्धज्ञपनस्य, पुरुषाकाङ् श्वाविषयतया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञपनस्य वा, कुत्रोपयोगः ?-इत्याशङ्कय यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव सुमुक्षुणा प्रवर्तितव्यं-इम्नाह-निरौतयोर्हति। परशब्देनोत्कृष्टमुच्यते, कथं “ ब्रह्म ’ इति व्याख्यायते ? तत्राह--न हीति । आनोति ’ शब्दस्यौपचारिकमर्थं दर्शयितुं शङ्कामुखेन सुख्यार्थे बाधकमाह--नन सर्व- गतामेत्याद्रना । परमार्थतां ब्रह्मस्वरूपस्यापि सतो जीवस्य ‘अविवया”‘ब्रह्मनाप्तं स्यात् ’ इति चात्र (प्रतियोगिविशेषःनुषादनान्नितिशयैव


१) वृ, . २. ४.५० (२)"ङ्इबृहि विवक्षिता वृद्ध”।(' धासति . पच . वस्त्रन्तरे १७३६७तेन ) पर्च्छेदाद्वृद्धेनरतिशयत्वं इति धातुवृद्धिमाचष्टे । सा भज्येत, तथाच वKवन्तराकृतपरिच्छेदरहितमेव ब्रह्मशश्चदत्राच्यं भवितुमर्हति । बृहत्तमवत्-पाठान्तरम् । (३) मुं. उ. ३.२.९. (४) ब्रह्मविद्विद्वान् परं ब्रह्म प्राप्नोतयिषं संबन्धो न सिध्यति, यदि ब्रह्मज्ञानं ब्रह्मा प्तिसाधनं न स्यात्, तस्माच्छूयर्थानुपपत्त्या साधनत्वसिद्धिरित्यर्थः।(५) °शानस्य-पाठः। (६) ज्ञान स्य-पाठः । (७) 'मित्यत्रेत्याह-पाठः।।