पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ ज्ञ-आनन्द-वल्ल

( ब्रह्मविद्यप्रकाशः)

प्रथमोऽनुवाकः

( ब्रह्मसूत्रम् )

ॐ ब्रह्मविदांमोतेि परम् ।

 संहितादिविषयाणि, कर्मभिरविरुद्धानि, उपासनान्युक्तानि, अनन्तरं चान्तः ब्रह्मविद्य विषयः सोपाधिकात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । न चैतावताऽशेषतः संसारबीजस्योपमर्देनमस्ति, इत्यतोऽशेषोपद्रवबीजस्याज्ञा नस्य निवृत्यर्थम्-विधूतसर्वोपाधिविशेषात्मद्र्शनार्थम्-इदमारभ्यते ‘ब्रह्म विदाप्नोति परम् ’ इत्यादि ।

 प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः, ततश्चत्यन्तिकः संसाराभावः। अविद्यानिवृत्तिः वक्ष्यति च–“विद्वान्न बिभेति कुतश्चन” इति; संसारनिमिते प्रयोजनम् च सति, ‘अभयं प्रतिष्ठां विन्दते ’ इत्यनुपपन्नम्; ‘‘कृताकृते पुण्यपापे न तपतः ” इति च । अतोऽवगम्यते–ऽस्मद्भिर्दात्मब्रह्मवि


वृत्ताहुवादपूर्वकमानन्दवड्थस्तात्पर्यमाह-संहितादीत्यादिना । ननु यथा पूर्व आप्नोति स्वार्राज्यम् ” इत्यपरविद्याफलमुक्तं संसारगोचरमेव, तथा परवियाफलमपि “ सोऽश्द्धते सर्वान्कामन् ” इति सर्वविषयसाध्यानानन्दान्संसारगोचरानेव दर्शयिष्यति, कथमात्यन्तिकः संसाराभावः ? इत्यत आह-प्रयोजनं चास्या इति । सर्वकामशब्देन


सेयं तैत्तिरीयोपनिषत्रिविधा–सांहिती, वारुणी, याज्ञिकी चेति । तत्र प्रथमप्रपाठके संहिता ध्यायस्योक्तत्वात्तद्योपनिषत् सांहिती; द्वितीयतृतीययोः प्रपाठकयोर्यो ब्रह्मविद्याऽभिहिता, तस्याः संप्रदायग्न- वर्तको वरुणः, तस्मात्तदुभयरूपोपनिषद्वारुणी। चतुर्थप्रपञ्चके यशोपयुक्ता अपि मन्त्रास्तत्र तत्रान्नाताः,अतस्त द्रुपोपनिषद्यज्ञिकी ( महानारायणोपनिषत् )। तासां तिसृणां मध्ये वारुणी मुख्या;~तस्यां परमपुरुषार्थस्य ब्रह्मप्राप्तिलक्षणस्य साक्षादेव साधनभूताया ब्रह्मविद्यायाः प्रतिपादितत्वात्” । ‘या तु देशविशेषे ‘ब्रह्मवित् ’ इत्यारभ्य नवानुवाका इति प्रसिद्धिः, सा त्वध्यापकैः पाठसौकयय परिकल्पिता, न त्वर्थानुसारिणी । ते हि ‘तदप्येष श्लोको भवति'-इत्यस्याः प्रतिज्ञायाः श्लोकपाठस्य च मध्ये तं तमनुवाकं समापयन्ति । न चैतद्युक्तम् कस्यचिदप्यर्थस्य पर्यवसानाभावात् । तस्मादितरदेशगताध्यापकप्रसिद्धया कृतोऽप्ययमेक एवानुवाकः“येषां नवानुवाककल्पना, तेषामप्येकवीवप्रसिद्धिरस्ति, ‘ब्रह्मवळी'-इत्येवं तैव्यहृतवान् । भगवद्भिर्भाष्यकारैः रपि’आनन्दवल्ली'-इत्येवं व्याहृतम् । अतो बहुस्कन्धयुक्तवीवद्वहुविधावान्तरपाठभेदयुक्तोऽप्येक एवायमनु वाकः” इति श्रीसायणाचार्यभाष्ये

(१) है. उ. २. ९ (२) .. २.७ ३) है. . २. ९ (४) पृ. २१. (५) तै.उ.२.१.