सत्यमिति यद्रपेण यन्निश्चितं तद्रयं न व्यभिचरति, तत्सत्यम्; यद्रपेण
अल सायम् येन्निश्चितं तद् व्यभिचरति, तदनृतमित्युच्यते । अतो वि
कारोऽनृतम्–“वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमे ,’ एवं ‘सदेव
--"सत्यैम्" इत्यवधारणात् अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकाग्निर्तयति ।
अतः कारणत्वं प्राप्तं ब्रह्ममः । कारणस्य च कारकत्वम्, वस्तुत्वान्मृद्वद्
ब्रह्म ज्ञानम् चिट्ठपता च प्राप्ता-अत इदमुच्यते ‘ज्ञानं ब्रह्म’ इति । ‘ज्ञानं
ज्ञप्तिरवबोधः-भावसाधन ज्ञानशब्दः-न ज्ञानकर्ते, ब्रह्मविशेषणत्वात्सत्या-
जन्ताभ्यां सह ।
नहि सत्यताऽनन्तता च ज्ञानकर्तृत्वे सत्युपपद्यते । ज्ञानकर्तृत्वेन हि विकि यमाणं कथं सत्यं भवेद्नन्तं च ? यद्धि न कुतश्चित्मविभज्यते, तदनन्तम् । शनकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात्--"यत्र"---“नान्य द्विजानाति स भूमा । अथ ‘‘यत्रान्यद्विजानाति तदल्पम्’ इति श्रुत्यन्तरात् ।
नान्यद्विजानाति ’ इति विशेषप्रतिषेधादात्मानं विजानाति-इति चेत्, न; भूमलक्षणविधिपरत्वाद्वाक्यस्र –यत्र नान्यत्पश्याति’ इत्यादि भूम्नो लक्षणवि- धिपरं वाक्यम् । यथाप्रसिद्धमेवान्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नस्ति, स भूमेति भूमस्वरूपं तत्र शष्यते; अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात्, न स्वा- 'मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आ- रमनश्च विज्ञेयत्वे, शत्रभावप्रसङ्गः-–ज्ञेयत्वेनैव विनियुकत्वात्। एक एवाऽऽत्मा शेयत्वेन शातृत्वेन चोभयथा भवति इति चेत्, न युगपत्, अनंशत्वात्हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे, शन पदेशानर्थक्यम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशोऽर्थवान् । तस्मात्, ज्ञातृत्वे सति, आनन्त्यानुपपत्तिः; सन्मात्रत्वं चानुपपन्नं शनकर्तृत्वादिविशेष
सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावर्यमाह-सत्यमिति--यद्रपेणेत्यादिना ।
भावसाधन इति–भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते, तथा ऽप्यत्र निर्विशेषे चिन्मात्रं भावव्युत्पच्या लक्ष्यते, सत्यादिशब्दसंनिधानात् इति द्रष्टव्यम् ।
विशेषनिषेधः शेषाभ्यनुज्ञाविषयः’ इति न्यायेन, प्रासङ्गिकं स्वशतृत्वे तात्पर्यमाशङ्कय निषेधति-नान्यद्विजानातीत्यादिना । कर्तृत्वं, कर्मत्वं चैकक्रियावाच्छिः धर्मद्वयं
(१) छां. उ. ६.१.४ (२) ‘सदेन सौम्य’ इति प्रकृत्य तत्सत्यम् ’-इति नवकृत्वः श्रुतम् छा. उ. ६. २. १-६. ८ ७ (३ ) छां. उ. ७. २४. १