पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ एकादशोऽनुवाकः ]
४१
ब्रहngयशः


एवमपि कर्षादिकरकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत् न, यथाप्राप्तमेव कारकास्तत्वमुपादाय, उपात्तदुरितक्षयार्थं कर्माणि विद धच्छास्त्रं मुमुक्षुणांफलार्थिनां च फलसाधनं, न कारकास्तित्वे व्याप्रियते । उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्जीवकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात्, ततश्वाविद्यानिवृत्तिः , तत आत्यन्तिकः संसारोपरमः ।

 अपि चानात्मदर्शिनो ह्यनात्मविषयः कामः । कामयमानश्च करोति कर्माणि। तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तह्यतिरेकेणाऽऽत्मैकत्व- दर्शिनो विषयाभावात्कामानुत्पत्तिः, आत्मनि चानन्यत्वान्कामानुत्पतैौ स्वा त्मन्यवस्थानं मोक्षः--इत्यतोऽपि विद्याकर्मणोर्विरोधः।

 (४) विरोधादेव च विद्या मोहं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु शनं प्रधानं, कर्म गुण- पूर्वोपचितप्रतिबन्धापनयद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते भूतमित्येतत्पक्षनिरासः कर्मणि नित्यानिइत्यत एवास्मिन्प्रकरण उपन्यस्तानि कर्माणीत्यवोचाम । एवं चाविरोधः कर्मविधिश्रुतीनाम् । “ शानादेव तु कैव- (५)अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् । ल्यम्”-इति सिद्धान्तः  एवं तद्दश्रमान्तरानुपपत्तिः ; कर्मनिमित्तत्वाद्विद्योत्पत्तेः, गार्हस्थ्ये च विहि- तानि कर्माणि–इत्यैकाश्रम्यमेव, अतश्च यावज्जीवाभृितयोऽनुकूलतराः स्युः ।  न, कर्मानेकत्वात्–न ह्यग्निहोत्रादीन्येव कर्माणि। ब्रह्मचर्यम्, तपःसत्यवदनम् सर्वाण्येवाश्रमकर्माणि शमःदमःअहिंसा-इत्येवमादीन्यपि कर्माणीतराश्रमप्र विद्योत्पत्तावपेक्षितानि सिद्धानि विद्योत्पत्तौ साधकतमान्यसंकीर्णत्वाद्विद्यन्ते, ध्यानधारणादिलक्षणानि च वक्ष्यति च –“ तपसा ब्रह्म विजिज्ञासस्व ” इति।


 पूर्वं सत्यमिथ्याविषयत्वेन विश्वकर्मणोर्विरोधमादाय समुच्चयो निरस्तः, इदानीं काम्य कामिविषयत्वेन विरोधमाह--अपि चेत्यादिना ।

 समसष्ठचयं निरस्य गुणप्रधानभावेनापि समुच्चयं निरस्यति--विरोधादेव चेति । विया चेत्कर्माणि स्वफळे नापेक्षते विरुद्धत्वात् , त्रिदण्डधर्म इवट्टीगमनं, कथं तर्हि विद्यासं निधाने कर्मणां पाठः ? -इत्यत आह--स्वात्मलाभे त्विति।

 कर्मणां विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयम्--इति प्रत्यवतिष्ठन्ते कर्मजडाः-- एवं तर्हति-श्रुतिस्मृतिष्वाश्रमान्तराणामपि विहितत्वाविशेषात्, तदीयकर्मसु कर्म- त्वाविशेषाच्च । ग्राम्यधर्मरागिणमेवैतच्चोयमित्याह--न, कर्मानेकत्वादिति । असंकीर्ण


(१) है. उ. ३.२.