पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्

विद्याकर्मसमुच्चयानुपपत्तिः  विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्ति:। प्रविलीनकर्त्रादिकारकविशेषतत्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कर्त्रादिविशेषवत्, तच्छून्यं च,-इत्युभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्यतरन्मिथ्या स्यात्; अन्यतरस्य च मिथ्यात्वप्रसङ्गे, युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम्,-"यत्र हि द्वैतमिव भवति","मृत्योः स मृत्युमाप्नोति","अथ यत्रान्यत्पश्यति तदल्पम्","अन्योऽसावन्योऽहमस्मि","उदरमन्तरं कुरुते,अथ तस्य भयं भवति,"–इत्यादिश्रुतिशतेभ्यः । सत्यत्वं चैकत्वस्य "एकधैवानुद्रष्टव्यम्", "एकमेवाद्वितीयम्", "ब्रहैवेदं र्सर्वम्", "आत्मैवेदं सर्वम्",-इत्यादिश्रुतिभ्यः। न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते; अन्यत्वदर्शनापवादश्व विद्याविषये सहस्रशः श्रूयते; अतो विरोधो विद्याकर्मणो; अतश्च समुच्चयानुपपत्तिः। तत्र यदुक्तम्, संहताभ्यां विद्याकर्मभ्यां भोक्ष इति, अनुपपन्नं तत् ।

 विहितत्वात्कर्मणाम्, श्रुतिविरोध इति चेत्-यद्युपमृद्य कर्त्रादिकारक विशेषमात्मैकत्वविज्ञानं विधीयते, सर्पादिभ्रान्तिविज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत् प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः, विहितानि च कर्माणि;स च विरोधो न युक्त:- प्रमाणत्वाच्छ्रुतीनामिति चेत्-

 न, पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । विद्योपदेशपरा तावच्छ्रुतिः, संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्याया विद्यया निवृत्तिः कर्तव्या इति विद्याप्रकाशकत्वेन प्रवृत्ता, इति न विरोधः ।


कर्मकार्यं किंचिन्मोक्षे न संभवतीत्युक्तम्, सोऽपि न संभवतीत्याह--विरोधाच्चेत्यादिना । संग्रहवाक्यं विवृणोति-विद्योपदेशपरा तावदित्यादिना । यदि कर्वादिकारकभेदस्य सत्यत्वांशमपबाध्य ब्रह्मज्ञानमुपदिश्यते, तदा मिथ्यार्थत्वात्कर्म- विधीनामप्रामाण्यं स्यादित्याह-विहितत्वादिति । शङ्कां विद्रुणोति--यदीत्यादिना । अध्ययनविधिगृहीतानां श्रुतीनां पुरुषार्थोपदर्शकत्वेन प्रामाण्यं वक्तव्यम्, न तु भेदसत्य त्वेन । ततः प्रसिद्धिसिद्धे कारकादिभेदमर्थक्रियासमर्थमादाय प्रवृत्तानां प्रामाण्यं न विरु ध्यत इत्याह-न, पुरुषार्थांत ।


(१) वृ. उ. ४-१५१५ (२) कट. ड. २-१० (३) छ. उ. ७२४१ (४) वृ. उ. १४१० (५) तै. डे. २-७ (६) वृ. ड. ४-४-२० (७) ङ. ड. ६-२-१ (८) लैं. उ. ता. उ. ७ (९) छ. उ. ७-२५-२•