पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ एकादशोऽनुवाकः]
३९
विद्याकर्मविवेकः

समसमुच्चयनिरासः (३) एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् । विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके–इति चेत्, न, कर्मण फलान्तरदर्शनात् । उत्पत्तिसंस्कारविकाराप्तयो हि फलं कर्मणो दृश्यते,उत्पत्त्यादिफलविपरीतश्च मोक्षः ।

 गतिश्रुतेराप्य इति चेत्-"सूर्यद्वारेण,” “तयोर्ध्वमायन्” इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्षः,इति चेत् –

 न, सर्वगतत्वात्, गन्तृभिश्चानन्यत्वात्, आकाशादिकारणत्वात्सर्वगतं ब्रह्म; ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः; अतो नाऽऽप्यो मोक्षः । गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम् । न हि येनैवाव्यतिरिक्तं यत्, तत्तेनैव गम्यते; तदनन्यत्वप्रासिद्धिश्च, "तत्सृष्ट्वा तदेवानुप्राविशत्","क्षेत्रज्ञम् चापि मां विद्धि” इत्येवमादिश्रुतिस्मृतिशतेभ्यः।

 गत्यैश्वर्यादिश्रुतिविरोध इति चेत्-अथापि स्यात्, यद्यप्राप्यो मोक्षः,तदा गतिश्रुतीनाम्, "स एकधा", "स यदि पितृलोककामो भवति","स्त्रीभिर्वा यानैर्वा” इत्यादिश्रुतीनां च कोपः स्यादिति चेत् -

 न, कार्यब्रह्मविषयत्वात्तासाम् । कार्ये हि ब्रह्मणि स्त्र्याद्यः स्युः, न कारणे- "एकमेवाद्वितीयम्","यत्र नान्यत्पश्यति”, "तत्केन कं पश्येत्" इत्यादिश्रुतिभ्यः।


कर्म प्रधानंविया चोपसर्जनम्--इति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति--एतेने ति। अनित्यत्वदिदोषप्रसङ्गनेत्यर्थः । मोक्षेति । मोक्षस्य प्रतिबन्धहेतुरविवाऽधर्मादिः, तत्रि वर्तके विश्वकर्मणी, न स्वरूपौत्पादके; ततः स्वरूपावस्थानस्य नित्यत्वम्, प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः ।“भिद्यते हृदयंग्रन्थिः ” इत्यादिश्रुतेः केवलवियास- ध्यैवाविद्ययानिवृत्तिः, न तत्र वेवायाः सहकार्यांपेक्षा; कर्मफलं त्वन्यदेव प्रसिद्धमित्याह--न, कर्मण इति।‘ “त्पत्ति:’ पुरोडाशादेः, ‘संस्कारो' त्रीयादेः‘विकारः’ सोमस्य,‘ अंति’ वेदस्य-कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वात्, अनाधेयातिशयत्वात्, अविकार्यत्वात्नित्याप्तत्वाच कर्मफलाद्वैपरीत्यमित्यर्थः । गतिश्रुतेरिति । आर्चिरादिशति अवणाव्, ब्रह्माण्डाद्वहिःस्थितत्रप्राप्तिमोक्षः, ततो नित्याप्तत्वमसिद्धमित्यर्थः । शैत्या प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा ? नोभयथाऽपीत्याह-न, सर्वगतत्वादिति। गत्यादिश्रुतेस्तात्पर्यं शङ्कापूर्वकं दर्शयति--गत्यैश्वर्येत्यादिना । समुच्चयमभ्युपगम्य


(१) मुं. उ. २-११–सूर्यद्वारेण ते विरजाः प्रयान्ति । (२) छां. २. ८. ६. ६, कठ. उ. २. ३. १६ (३) है. उ. २. ६ (४) भ• गी. १३. २. (५) छां. ७. ७२६-२ (६) छां. उ. ८ २-१ (७) ग्रां. ३२. -८८. १२ (१२ -३ () तुलय ८) छ-. संक्षेपश उ. ६-२-. २१ १.(३०६ ९) . (छां १३ . उ . ) ‘७प्तिरपूर्वस्य -२४१ (१० -पाठः ) ब्. ।(उ. १४४-) १५गत्वा-१५-- पाठः (११ । )ङ.उ.