पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


 (२) एवं तर्हि विद्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः, विद्यासाहितानां च शनकर्मणोरञ्जलिभा- कर्मणां भवेत्कार्यान्तरारम्भसामथ्र्यम् । यथा स्वतो मरण वेन समप्रधानतया । च ज्वरादिकार्यारम्भसामथ्र्योनामापे विषद्ध्यादीनां मन्त्रशर्क- त्रिविधसमुच्चये गु - ज, में प्रधानम रादिसंयुतानां कार्यान्तरारम्भसूर्यम् , एवं विद्यास हितैः कर्मभिर्मोक्ष आरभ्यते--इति चेत्, न, आरभ्यस्या नित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत्, न, झपक त्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य शापकं, नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं चाऽविनाशि भवेत्।


प्यधिक्रियते, न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते,–व्यतिरेकभावादित्यर्थः। अध्ययनविधि व्यापारोपरमेष्ठ्यं तथाभूतं ब्रह्मोपासनमेव नास्ति, मानाभावाव्-इति न वक्तव्यमित्याह उपासनं चेति । एतच्च कर्ममीमांसान्यायंङ्गीकारमात्रेणोक्तम् । वस्तुतश्च धातव्यविधि प्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटायै प्रतिष्ठितम् ।

 केवलं कर्म मोक्षसाधनम्--इति पक्षे निरस्य, वियासखाचितं मोक्षसाधनम्-इति पक्षान्त रमाशङ्कथ निषेधति-एवं तर्हत्यादिना । “ न च पुनरावर्तते ’ इति वचनादारभ्योऽपि मोक्षौ नित्यः--इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गशपक त्वात् । न चाऽऽरभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम, अन्यथा वचनस्य कारकत्वप्रसङ्गात्- “ अन्धो मणिमविन्दॐ ॐ इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह-न्, ज्ञापकत्वादि त्यादिना ।


(१)यदेव विद्यया करोति”–छां. उ. १. १. १० इति वाक्याज्ज्ञानस्य नित्यनैमित्तिकादिकर्माङ्गवम्। ‘विविदिषन्ति यज्ञेन” वृ. ३. ४-४-२२ इति वाक्येन कर्मणो ज्ञानाङ्गत्वम् । “ विद्यां चाविद्यां च यस्तद्वेदोभयं सह ”–ई. ४. ११. इति वाक्येन ज्ञानकर्मणोः समप्रधानता । (२) “ आत्मयाथात्म्यानवबोधादेव हितप्रेप्सा दुःखजिहासा च भवति; न पुनः शस्त्रमेव-यूयं कर्तारो भोक्तारश्चयुष्माकं प्राप्यं परिहार्यं चास्ति, तस्माद्यु माभिर्हितं प्रेप्सितव्यमहितं च जिज्ञासितव्यं, यूयं वर्णाश्रमवयोवस्थाविशेषवन्त:-इति कर्तृत्वादिकमुत्पादयति बोधयति वा । किंतु स्वयमेवाध्यारोपितकर्तृत्वभोक्तृत्ववर्णाश्रमवयोवस्थाविशेषवतां पुंसां स्वत एव प्रेप्सितस्य हितस्य जिहासितस्य चाहितस्य प्राप्तये परिहाराय च साधनं जिज्ञासमानानामिदं साध्यमिदं च साधनमिति साध्यसाधनसंबन्धमात्रं यथावस्थितमर्कवत् प्रकाशयति शास्त्रम्, न पुनः प्रवृत्तिनिवृतिजननेऽपि शास्त्रस्य व्या- पारः । तत्र तूदासीनमित्यर्थः “के. सि. चन्द्रिका. १. २९.; ब्र.सू. १.१. २. कर्तुं शक्यं लौकिकं वैदिकं च कर्म,”–इत्यादि भाष्यं द्रष्टव्यम् ; तथा उपन् साहनीगद्यप्रबन्धे ४२ वाक्यम् । ( ३ ) अनुष्ठेयतया भृतब्रह्मो०-पाठः। (४) अध्ययनविधेरर्थशानपर्यवसायित्वात्-इति न्यायः । (५) ब्र. स् १.१.४ भाष्यं समालोचनीयम् तुलय च संक्षेपशा. १.३१२, भामती १.१.२ तथाहि-आश्रमविहितेत्या दि. (६ ) छां. उ. ८.१५.१ (७) है. आ. १-११-५.