पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसंभवात्, कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्याम्, गार्हस्थ्यप्रतिपतिरन*ि कैव । लोकार्थत्वाच्च पुत्रादीनाम् , पैत्रादिसाध्येभ्यश्च--अयं लोकःपितृलोकः देवलोक इत्येतेभ्यः-व्याप्तकामस्य, नित्यसिद्धात्मलोकदर्शिनः कर्मणि प्रयोजनमपश्यतःप्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ कथं विद्यापरिपाकाद्विरक्तस्य, कर्मसु प्रयोजनमपश्यतः, कर्मभ्यो निवृत्तिरेव स्यात् “ प्रव्रजिष्यन्वां अरेऽहमस्मात्स्थानास्मि ” इत्येवमादिश्रुतिलिङ्गदर्शनात् ।

 कमे प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुकम् -इति चेत् -अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नःमहांश्च कर्मण्यायासःअनेकसाधनसाध्यत्वाग्निहोत्रादीनाम् तपोब्रह्मचर्यादीनां चेतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वात्, अल्पसाधना- त्वचेतरेषाः,नयुकस्तुल्यवद्विकल्प आश्रमिभिस्तस्य, इति चेत्-, जन्मा न्तरकृतानुग्रहात् । यदुक्तं ‘कर्मणि श्रुतेरधिको यत्नः’ इत्यादि, नासौ दोषः । यतो जन्मान्तरकृतमप्यग्निहोत्रादिलूक्षणं कर्म, ब्रह्मचर्यादिलक्षणं च, अनुग्राहकं भवति विद्योत्पति प्रति, येन जन्मनैव विरक्ता दृश्यन्ते केचित् केचित्तु कर्मख. प्रवृत्ता अविरक्ता विद्याविधैषिणः, तस्माजन्मान्तरकृतसंस्कारेभ्यो विरक्ताना माश्रमान्तरप्रतिपत्तिरेवेष्यते ।

 कर्मफलबाहुल्याश्च--पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासंख्येय- त्वात्, तत्प्रति च पुरुषाणां कामबाहुल्यात् तथैः श्रुतेरधिको यत्नः कर्मस्पप द्यतेः आशिषां बाहुल्यदर्शनात् इदं मे स्यादिदं मे स्यादिति; उपायत्वाच्च उपायभूतानि हि कर्माणि विद्यां प्रतीत्यवोचाम । उपाये चाधिको यत्नः कर्ता व्यो नोपेये।

 कमनमेत्तत्वाद्द्याया यत्नान्तरानर्थक्यः मते चेत्-कर्मभ्य एव पूवोप


त्वादिति। हिंसायमिश्रितत्वादित्यर्थः । इतश्च कर्मणो विद्यसाधनत्वेऽपि न गार्हस्थ्यमाव- श्यकम्, इत्याह-जन्मान्तरेति । कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि, न सर्वैरवधेयत्वम्, इत्यत्र हेत्वन्तरमाह-लोकार्थत्वाच्चेत्यादिना ।

 गार्हस्थ्यस्यानावश्यकत्वेन वैकल्पकमनुष्ठानमुक्तम्, तत्रातुल्यबलत्वेन विकल्पमाक्षिपति कर्म प्रति श्रुतेरिति। “ न जन्मान्तरकृतानुग्रहात् ’-इति परिहारभाष्यं विवृणोति--यदु- क्तमित्यादिना । कर्मणि यत्नाधिक्यस्यान्यथासिद्धत्वाद्विकल्पविघातकत्वं न संभवतीत्यर्थः ।

 इदानीं गृहस्थाश्रमकर्मणां बहिरङ्गत्वम् , संन्यासाश्रमकर्मणां त्वन्तरङ्गववासाधनत्वम् ,


(१) वृ, ङ. १. ५. १६. (२) व. उ. ४. ५ २, k