पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१० दशमोऽनुवाकः ]
२९
ब्रह्मज्ञानप्रकाश:


नीव स्वमृतमस्मि। । द्रविणम् सवर्चसम् । सुमेधा अमृतो

क्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ( १ ) ।

यस्य सर्वात्मने मम, सोऽहमूर्ध्वपवित्रः । वाजिनीव-वाजवतीव वाजमन्नं तद्वति–सवितरीत्यर्थः; यथा सवितर्यमृतमात्मतत्त्वं विशुद्धम् प्रसिद्धम् श्रुतिस्मृतिशतेभ्यः, एवं स्वमृतं शोभनं विशुद्धमात्मतत्त्वमस्मि भवामि ।

 द्रविणं धनं सवर्चसं दीप्तिमत्- तदेवाऽऽत्मतत्वम्-'अस्मि’ इत्यनुवर्तते; ब्रह्मज्ञानं वाऽऽत्मतत्स्वप्रकाशत्वात् सवर्चसम् विणमिव द्रविणम्, मोक्षसुखहेतुत्वात्; अस्मिन्पक्षे ‘प्राप्तं मया’ इत्यध्याहारः कर्तव्यः । सुमेधाः शोभनामेधा,सर्वज्ञलक्षणावा यस्य मम सोऽहं सुमेधाः—संसारस्थित्युत्पत्युपसंहारकौशलयोगात्सुमेध स्त्वम् । अत एवामृतोऽमरणधर्मोऽक्षितोऽक्षीणोऽव्यय:, उक्षितो वा; अमृतेन वोक्षितः सिक्तः "अमृतोक्षितोऽहम्” इत्यादि ब्राह्नणम् । इत्येवं त्रिशङ्कोरृषेर्ब्रह्मभूतस्य ब्रह्मविदो वेदो वेदनमात्मैकत्वविज्ञानम्, तस्य प्राप्तिमनुवचनम् वेदानुवचनमात्मनः कृतकृत्यताख्यापनार्थं वामदेववत्; त्रिशङ्कुनाऽऽर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः ।

आर्षदर्शनहेतवः  अस्य च जपो विद्योत्पत्त्यर्थोऽवगम्यते । 'ऋतं च‘--इत्यादिकर्मोपन्यासदनन्तरं च वेदानुवचनपाठादेतदवगम्यते । एवं श्रौतस्मार्तेषु


श्रुत्यादिप्रमाणमपि नोपलभ्यत इत्याह-न चान्यार्थत्वमिति । 'अक्षितमसि’ इत्यादिवदुपासनाविधिशेषत्वं वा वक्तुं न शक्यते--ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः । 'अहं वृक्षस्य' इतिमन्त्रस्यर्षित्रिशङ्कु:, पद्भिश्छन्दः, परमात्मा देवता, ब्रह्मविद्यार्थम् जपे


वाक्यैक्यादेकं यजुरिति पूर्वपक्षयित्वा, “इषे वेति शाखामाच्छिनत्ति ", ऊर्जे त्वेत्यनुमार्टि” इति च्छेद- नानुमाऊँनयभेदेन विनियोगादर्थभेदभानाप्रश्लेषपाठस्य चादृष्टार्थवेनापि संभवाद तद्वलद्विधिवाक्यस्थशब्दस्य अतीकग्रहणेन लक्षणानुपपत्तेर्वाक्यभेदस्य न्याय्यत्वादनेकं यजुरिति राद्धान्तिम्-सं.वार्तिकटीका- २७७ (१) द्विविधं हि द्रविणम् –मानुषं दैवं च । तत्र चक्षुषा दृश्यमानं सुवर्णरजतादिकं मानुषम् ; श्रोत्रेण श्रूयमाणं वेदे प्रतीयमानं ब्रह्मज्ञानादिकं दैवम् । अत एव वाजसनेयिनः कस्मिश्चिदुपासने चक्षुः श्रोत्रयोर्मानुषदैववित्तदृष्टिमामनन्ति- चक्षुर्मानुषं वित्तम् । चक्षुषा हि तद्विन्दते । क्षेत्रं दैवम्। श्रोत्रेण हि तच्छूणोति ॐ बृ उ. १४१७-इति । तत्र दैववित्तमभिप्रेत्य सवर्चसमिति विशेष्यते । वर्च बलं तथोगासवर्चसम्, बलवत्त्वं च दैववित्तस्य ब्रह्मज्ञानस्य सर्वसंसारनिवर्तकत्वादुपपन्नम् । (२) घइभावविकाररहितः (३) महान्-निघण्टु ३.३.५. (४) ?प्रक्षिप्तो भाति ; ०अहमिति ।-इत्यतोवानेवो पसंहारारमकः पाठः स्यात् । (५) स्वनुभावप्रकटीकरणमेव तद्वचनम् (६) क्र. सं. ४.२७. १.; ऐ.उ. २.१.; ब्रु.उ. १४१०६ ब्र.सू. ३.३.३२२ (७) नवमानुवाके (८) एकादशानुवाके (९) छां-उ-३१७६.