तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति
नाको मौद्गल्य: । तद्धि तपस्तद्धि तपः ( १ )।
प्रजा च स्वाध्यायप्रवचने च षट् च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां नवमोऽनुवाकः ॥ ९॥
अथ शिक्षावल्ल्यां दशमोऽनुवाकः ।
( ब्रह्मज्ञानप्रकाशः)
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजि-
यथोक्तेषु कर्मसु प्रशस्त्येन मतभेदः सत्यमिति-सस्यमेवानुष्ठातव्यमिति सत्यवचाः, सत्यमेव वचो यस्य सोऽयं सत्यवचा:, नाम वा तस्य, राथीतरो रथीतर-(स्य?) गोत्रो राथीतराचार्यो मन्यते ।
तप इति तप एव कर्तव्यमिति--तपोनित्यस्तपसि नित्यस्तपःपरः, तपोनित्य इति वा नाम-पौरुशिष्टि: पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते। स्वाध्यायप्रवचने एवानुष्ठेये इति नाको नामतः, मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते । तद्धि तपस्तद्धि तप:-हि यस्मात्स्वाध्यायप्रवचने एव तपः,तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्यतपःस्वाध्यायप्रवचनानाम् पुनर्ग्रहणमादरार्थम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये नवमोऽनुवाकः ॥ ९ ॥
ब्रह्मयज्ञफलसिद्ध्यर्थो मन्त्रः 'अहं वृक्षस्य रेरिवा’इति स्वाध्यायार्थो मन्त्राम्नायः; स्वाध्यायश्च विद्योत्पत्तये -प्रकरणात्, विद्यार्थम् हीदं प्रकरणम्; न चान्यार्थत्वमवगम्यते;स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पतिरवकल्पते ।
मन्त्राम्नाय आत्मविद्याप्रकाशकः अहं वृक्षस्योच्छेदात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिताऽन्तर्याम्यात्मना । कीर्तिः ख्यातिर्गिरेः पृष्ठमिवोच्छ्रिता मम । ॐर्वपवित्रः - ऊर्ध्वम् कारणम्, पवित्रं पावनम् -ज्ञानप्रकाश्यं परमं ब्रह्म
स्वाध्यायार्थ इति जपार्थ:। “ इषे त्वेति शाखां छिनत्ति । इतिवदन्यत्र विनियोजकं
(१) मन्त्रदृब्रह्मभूतः (२) तुल्य-भः गी १५, ३-४.; कठउ. ६.१ (३) ऐ.उ. २.१. भाष्ये ऊर्धः= परमात्मभूतः ( ४ ) वाक्योत्थबुद्धिवृत्तिद्वारा भवहानेन पवित्रम् । (५) हिरण्य. श्री• स् . १.२.तुल्य-आपः - - १. १. १०। स्थितं भेदलक्षणे ५ समेषु वाक्यभेदः स्यात् ” (जै. स्. २. १.४७-(तै१..वा.)इषे त्वोर्जे त्वा ” .सं. ११.) आदिष्वेकमनेकं यजुरिति संशये प्रवेषपाठानुग्रहात्इषे त्वोर्जे त्वा ” इत्यनयोरन्योन्यसन्निहितयोरेव शाखाच्छेदने चानुमार्जने च विनियोगादेकार्थता