- स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायमर्वचने च । अग्निहोत्रं
- च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवंचने च । मानुषं
- च स्वाध्यायप्रवंचने च । प्रजा च स्वाध्यायप्रवचने च । प्रज
- नश्च स्वाध्यायप्रवंचने च । प्रजातिश्च स्वध्यायप्रवचने च,।
सत्यमिति सत्यवचां राथीतरः ।
होपन्यासः । ऋतमिति व्याख्यातम्; स्वाध्यायोऽध्ययनम्, प्रवचनमध्यापनं उपासकस्य नित्य- ब्रह्मयज्ञो वा;~एतान्यतादीन्यनुष्ठेयानीति वाक्यशेषःसत्यं कर्मणामुपासनेन सह च सत्यधृदनं , यथाब्याख्यातार्थं वा; तपः कृछादिः दमो बाह्यकरणोपरामः शमोऽन्तःकरणोपशमः ; अग्नय आधा तव्याः अग्निहोत्रं च होतव्यम् ; अतिथयश्च पूज्याः मनुषमिति लौकिक संव्यवहारःतच्च यथाप्राप्तमनुष्ठेयम् प्रज चोत्पाद्या; प्रजनः प्रजननम् ऋतौ भार्यागमनमित्यर्थःप्रजातिः पौत्रोत्पत्तिः-पुत्रो निवेशयितव्य इत्ये तत्-सर्वैरेतैः कर्मभिर्युतस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेयेइत्येवमर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानस् , अर्थज्ञानायत्तं च परं श्रेयःप्रवचनं च तदविस्मरणार्थं धर्मवृद्धयैर्यं च, अतः स्वाध्यायप्रव चनयोरादः कार्यः।
व्यवहितानुवाकेन संबन्धमाह-विज्ञानादेवेत्यादिना । अपरवियासहकारितया तत्फळेनैव फळबत्वसिद्धयर्थमुत्तरानुवाकारम्भ इत्यर्थः । ‘लैौकिकसंव्यवहारः' विवाहादिः।
पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह--सर्वैरेतैरिति । किमिति यत्नतोर्- ठेये ? तत्राऽऽइ-स्वाध्यायाधीनमिति।
त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्यायप्रवचनयोरेवाऽऽदरं विवृणोति--सत्य मित्यादिना ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरी योपनिषच्छांकरभाष्यटिप्पणे शिक्षावल्ल्यां नवमोऽनुवाकः ॥ ९॥
(१) पृ. ८. (२) वचनं-पाठः (३) मनुष्यविवाहाद्युत्सवेषु क्रियमाणं वध्यादिपूजनं मानुषम् इति सान् भाष्ये । (४) पुण्योपचयहेतुत्वात्तयोः।