पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९ नवमोऽनुवाकः ]
२७
उपासकधर्मा:


स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं

च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं

च स्वाध्यायप्रवंचने च । प्रजा च स्वाध्यायप्रवचने च । प्रज

नश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वध्यायप्रवचने च,।

सत्यमिति सत्यवचां राथीतरः ।

उपासकस्य नित्यकर्मणामुपासनेन सह समुच्चय: होपन्यासः । ऋतमिति व्याख्यातम्; स्वाध्यायोऽध्ययनम्, प्रवचनमध्यापनं ब्रह्मयज्ञो वा;~एतान्यृतादीन्यनुष्ठेयानीति वाक्यशेषः। सत्यं च सत्यवदनं, यथाब्याख्यातार्थं वा; तपः कृछ्रादिः; दमो बाह्यकरणोपशमः; शमोऽन्तःकरणोपशमः; अग्नय आधातव्याः; अग्निहोत्रं च होतव्यम्; अतिथयश्च पूज्याः; मनुषमिति लौकिक: संव्यवहारः, तच्च यथाप्राप्तमनुष्ठेयम् प्रजा चोत्पाद्या; प्रजनः प्रजननम्- ऋतौ भार्यागमनमित्यर्थः;प्रजातिः पौत्रोत्पत्तिः-पुत्रो निवेशयितव्य इत्येतत्-सर्वैरेतैः कर्मभिर्युक्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये-इत्येवमर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानम्, अर्थज्ञानायत्तं च परं श्रेयः,प्रवचनं च तदविस्मरणार्थं धर्मवृद्ध्यर्थम् च, अतः स्वाध्यायप्रवचनयोरादर: कार्यः।


 व्यवहितानुवाकेन संबन्धमाह-विज्ञानादेवेत्यादिना । अपरवियासहकारितया तत्फळेनैव फळबत्वसिद्धयर्थमुत्तरानुवाकारम्भ इत्यर्थः । ‘लैौकिकसंव्यवहारः' विवाहादिः।

 पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह--सर्वैरेतैरिति । किमिति यत्नतोर्- ठेये ? तत्राऽऽइ-स्वाध्यायाधीनमिति।

 त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्यायप्रवचनयोरेवाऽऽदरं विवृणोति--सत्य मित्यादिना ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरी योपनिषच्छांकरभाष्यटिप्पणे शिक्षावल्ल्यां नवमोऽनुवाकः ॥ ९॥


(१) पृ. ८. (२) वचनं-पाठः (३) मनुष्यविवाहाद्युत्सवेषु क्रियमाणं वध्यादिपूजनं मानुषम् इति सान् भाष्ये । (४) पुण्योपचयहेतुत्वात्तयोः।