पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ शिक्षावल्ल्यां षष्ठोऽनुवाकः ।

(मनोमयत्वादिगुणकब्रह्मोपासनम् )

( किञ्चित्सूक्ष्मर्शमध्यमाधिकारी )

स य एषऽन्तर्हदय आकाशः । तस्मिन्नयं पुर्घो मनोमयः ।
अमृतो हिरण्मयैः ।
अन्तरेण तार्के । य एष स्तनं इवावृलम्बते । सैन्द्रयोनिः ।
यत्रासौ कशन्ता ड्रिवर्तते । व्यपोध शीर्षकाले ।

 भूभुवःसुवः' स्वरूपा 'मह' इत्येतस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या वपस्यब्रह्मस्वूरूपम् देवता इत्युकम्। यस्य ता अङ्गभूताः तस्यैतस्य ब्रह्मणः साक्षा दुपलभ्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते, शालग्राम इव विष्णोः। तस्मिन् हि तद्रलोपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते, पाणा विवाऽऽमलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते—

 ‘स’ इति व्युत्क्रम्य “ अयं पुरुषः ’ इत्यनेन संबध्यते । य एषोऽन्तर्युदये हृद् यस्यान्तःहृदयमिति पुण्डरीकाकारो मांसपिण्डः, प्राणायतनः, अनेकनाडी- सुषिरः, ऊर्वनालः, अधोमुखःविशस्यमाने पशौ प्रसिद्ध उपलभ्यते,--तस्या न्तर्यं एष आकाशः प्रसिद्ध एव करकाकाशवत्, -तस्मिन् सेऽयं पुरुषः; पुरि शयनात्, पूर्णा वा भूरादयो लोका येनेति-पुरुषः;मनोमयः-मनो विज्ञानं, मनु तेझनकर्मणः–तन्मयस्तत्प्रायस्तदुपलभ्यत्वात्, मनुतेऽनेनेति वा मनोऽन्तःकर- णम्, तदभिमानी तन्मयःतनृिङ्गो वा ।अमृतोऽमरणधर्मी ,हिरण्मयो ज्योतिर्मयभ

 तस्यैवंळक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येन्द्रस्येट्ट उपासकस्य स्वरूप- शस्वरूपस्य ब्रह्मणः स्वरूपप्रतिपत्तये मार्गोऽभिधीयते । हृद- प्रतिपतिद्वारम् यादृर्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्ध सा चान्तरेण मध्ये प्रसिद्ध तालुके तालुकयोर्गता; यश्चैष ताकुकयोर्मध्ये स्तन इवावलम्बते मांसखण्डः, तस्य चान्तरेणेत्येतत्; यत्र च केशान्तः--केशाना मन्तोऽवसानं मूलं केशान्तः-विवर्तते विभागेन वर्तते मूर्धप्रदेशे इत्यर्थःतं


तदुपलभ्यत्वादिति । ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यमानत्वाद्वयायिभिरित्यर्थः जडस्य मनसः प्रवृतिं दृष्ट्वा तदधिष्ठातृतया हिरण्यगर्भऽनुमीयते, तस्य शाजे सकलकरणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः।


(१) तेन लितेन मनसा गम्यमानः । ( २) ०भ्यत्वादयाप्तेरि°–इति पाठान्तरम् ।