पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शिक्षावल्ल्यां षष्ठोऽनुवाकः ।

(मनोमयत्वादिगुणकब्रह्मोपासनम् )

( किञ्चित्सूक्ष्मर्शमध्यमाधिकारी )

स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।

अमृतो हिरण्मय:।

अन्तरेण तालुके । य एष स्तन इवावलम्बते । सैन्द्रयोनिः ।

यत्रासौ केशन्तो विवर्तते । व्यपोह्य शीर्षकाले ।

उपास्यब्रह्मस्वूरूपम्  भूर्भुवःसुवः' स्वरूपा 'मह' इत्येतस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम्। यस्य ता अङ्गभूताः तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते, शालग्राम इव विष्णोः। तस्मिन् हि तद्ब्रह्मोपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते, पाणाविवाऽऽमलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते—

 ‘स’ इति व्युत्क्रम्य 'अयं पुरुषः' इत्यनेन संबध्यते । य एषोऽन्तर्हृदये हृदयस्यान्तः,-हृदयमिति पुण्डरीकाकारो मांसपिण्डः, प्राणायतनः, अनेकनाडीसुषिरः, ऊर्ध्वनालः, अधोमुखः, विशस्यमाने पशौ प्रसिद्ध उपलभ्यते,-तस्यान्तर्य एष आकाशः प्रसिद्ध एव करकाकाशवत्, -तस्मिन् सोऽयं पुरुषः; पुरि शयनात्, पूर्णा वा भूरादयो लोका येनेति-पुरुषः; मनोमयः-मनो विज्ञानं, मनुतेर्ज्ञानकर्मणः–तन्मयस्तत्प्रायस्तदुपलभ्यत्वात्, मनुतेऽनेनेति वा मनोऽन्तःकरणम्, तदभिमानी तन्मयः, तल्लिङ्गो वा ।अमृतोऽमरणधर्मा,हिरण्मयो ज्योतिर्मय:।

उपासकस्य स्वरूपप्रतिपतिद्वारम्  तस्यैवंळक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येन्द्रस्येदृशस्वरूपस्य ब्रह्मणः स्वरूपप्रतिपत्तये मार्गोऽभिधीयते । हृदयादूर्ध्वम् प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा; सा चान्तरेण मध्ये प्रसिद्धे तालुके तालुकयोर्गता; यश्चैष तालुकयोर्मध्ये स्तन इवावलम्बते मांसखण्डः, तस्य चान्तरेणेत्येतत्; यत्र च केशान्तः-- केशानामन्तोऽवसानं मूलं केशान्तः-विवर्तते विभागेन वर्तते मूर्धप्रदेशे इत्यर्थः; तं


तदुपलभ्यत्वादिति । ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यमानत्वाद्ध्यायिभिरित्यर्थः जडस्य मनसः प्रवृतिं दृष्ट्वा तदधिष्ठातृतया हिरण्यगर्भऽनुमीयते, तस्य शास्त्रे सकलकरणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः।


(१) तेन लिङ्गेन मनसा गम्यमानः । ( २) ०भ्यत्वाद्व्याप्तेरि°–इति पाठान्तरम् ।