पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ षष्टोऽनुवाकः ]
२१
सगुणब्रह्मोपासनम्


भूरित्यग्नौ प्रतितिष्ठति । भुव इतेि वायौ (१)

सुवरित्यदित्ये । मह इति ब्रह्मणि। आप्नोति स्वाराज्यम् ।

आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः।

एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म

प्राणारामं मनआनन्दम् । शान्तिसमृद्धमृतम् ।

देशं प्राप्य तत्र विनिःसृता व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले विनिर्गता या, सेन्द्रयोनिः—इन्द्रस्य ब्रह्मणो योनिर्मार्गः स्वरूपप्रतिपत्तिद्वारमित्यर्थः।

फलं ब्रह्मप्राप्तिः  तयैवं विद्वान्मनोमयात्मदर्शी मूर्ध्नो विनिष्कस्य, अस्य । लोकस्याधिष्ठाता भूरितिव्याहृतिरूपो योऽग्निर्महतो ब्रह्मणोऽङ्गभूतः, तस्मिन्नग्नौ प्रतितिष्ठति–अग्न्यात्मनेमं लोकं व्याप्नोतीत्यर्थः; तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ- 'प्रतितिष्ठति' इत्यनुवर्तते ।

 सुवरिति तृतीयव्याहृत्यात्मन्यादित्ये, मह इत्यङ्गिनि चतुर्थव्याहृत्यात्मनि ब्रह्मणि 'प्रतितिष्ठति’। तेष्वात्मभावेन स्थित्वाऽऽप्नोति ब्रह्मभूतः स्वाराज्यं स्वराड्भावं स्वयमेव राजाऽधिपतिर्भवति, अङ्गभूतानां देवानां यथा ब्रह्मा; देवाश्च सर्वेऽस्मै बलिमावहन्त्यङ्गभूताः, यथा ब्रह्मणे । आप्नोति मनसस्पतिम् सर्वेषां हि मनसां पति:, सर्वात्मकत्वाद्ब्रह्मण:;--सर्वैर्हि मनोभिस्तन्मनुते;-तदाप्नोत्येवं विद्वान् । किञ्च वाक्पतिः —सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिश्चक्षुषां पतिः, श्रोत्रपतिः श्रोत्राणां पतिः, विज्ञानपतिर्विज्ञानानां च पति:;–सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किञ्च ततोऽप्यधिकतरमेतद्भवति । किं तत् ? उच्यते--आकाशशरीरमाकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरीरमस्य,-इत्याकाशशरीरम्। किं तत्? प्रकृतं ब्रह्म; सत्यात्म–सत्यं मूर्तामूर्तमवितथं स्वरूपं चाऽऽत्मा स्वभावोऽस्य, तदिदं सत्यात्म; प्राणारामम्--प्राणेष्वाराम आ रमणमाक्रीडा यस्य तत्प्राणारामम्, प्राणानां वाऽऽरामो यस्मिम्स्तत्प्राणारा-


 स्वाराज्यं निरङ्कुशमैश्वर्यं जगत्सृष्टृत्वादिलक्षणं न भवतीत्याह -अङ्गभूतानां देवानामिति । सावधिकमैश्वर्यंमेवाऽऽह- आप्नोतीत्यादिना ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैतिरीयोपनिषच्छां करभाष्यटिप्पणे शिक्षावल्ल्यां षष्ठोऽनुवाकः ॥ ६ ॥