पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


आवहन्ती वितन्वाना (१)। कुणाऽचीरमात्मनः ।

वासाम्सि मस गावश्च । अन्नपाने च सर्वदा । ततो मे

श्रियमावह । लोमशां पशुभिः सह स्वाहा ।

[ ओ मयन्तु ब्रह्मचारिणः स्वाह । विमाऽऽयन्तु ब्रह्मचारिणः

स्वाह । प्र माऽऽयन्तु ब्रह्मचारिणः स्वाह । दमायन्तु

ब्रह्मचारिणः स्वाह । शमायन्तु ब्रह्मचारिणः स्वाह ( २ )]

च तदर्थमेव हि प्रार्थ्यते । ब्रह्मणः परमात्मनः कोशोऽसि-असेरिव, उपलबध्यधिष्ठानत्वात् हि ब्रह्मणः प्रतीकं, त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकप्रज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैरविदितसतत्त्व इत्यर्थः । श्रुतं श्रवणर्वकमात्मज्ञानादिकं मे गोपाय रक्ष-तत्प्राप्त्यविस्मरणादि कुर्वित्यर्थः।। जपार्था एते मन्त्रा मेधाकामस्य । श्रीकामस्य होमार्था मन्त्रा:  श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते मन्त्राः । आवहन्ती-आनयन्ती; वितन्वाना–विस्तारयन्ती, तनोतेस्तत्कर्मत्वात्; कुर्वाणा निर्वर्तयन्ती, अचीरमचिरं क्षिप्रमेवं-चिरं वा कुर्वाणा, आत्मनो मम--किम् ? इत्याह-वासाम्सि वस्त्राणि, मम गावश्च गाश्चेति यावत्, अन्नपाने च सर्वदा- एवमादीनि कुर्वाणा श्रीर्या तां ततो मेधानिर्वर्तनात्परमावह--आनय, अमेधसो हि श्रीरनर्थायैवेति । किंविशिष्टाम् ? लोमशां--अजाऽव्यादियुक्तां, अन्यैश्च पशुभिः सह युक्तामावहेति, अधिकारादोंकार एवाभिसंबध्यते । स्वाहा स्वाहाकारो होमार्थमन्त्रन्तज्ञापनार्थः।

विद्यासम्प्रदायप्रवृत्यर्थं शिष्यसम्पादकहोमार्था मन्त्राः [ आयन्तु मामिति व्यवहितेन संबन्धः । ब्रह्मचारिणो विभाऽऽयन्तु प्रमाऽऽयन्तु दमायन्तु शमायन्वित्यादि ।]


अचेतनशब्दं प्रति प्रार्थना कथं ? कथं चन्द्रशब्देनाभिधानम् ? इत्याशङ्क्य ब्रह्माभेदविवक्ष येत्यभिप्रेत्याऽह–ब्रह्मण इति । ब्रह्माभेदेन प्रार्थितदाने समर्थभेदोङ्कारःकिमिति सर्वैर्नोपास्यते? इत्याशङ्क्याऽऽह-मेधयेति । लौकिकप्रज्ञयेति-शालग्रामादिष्विव देवताबुद्ध्येत्यर्थः। नैतेष्वार्षेयादि मृग्यम्, ब्राह्मणोत्पन्नत्वात् ।


{{{1}}}