पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शिक्षावल्ल्यां चतुर्थोऽनुवाकः ।

(मेधादिसिद्ध्यर्था मन्त्रा:)

यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतत्संबभूव ।


स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देख धारणो भूयासम् ।


शरीरम् मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि


विश्रुवं । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय।

मेघाहेतुर्मन्त्रः  यश्छन्दसामिति । मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते । "स मेन्द्रो मेधया स्पृणोतु" "ततो मे श्रियमावह” इति च लिङ्गदर्शनात् । यश्छन्दसां वेदानामृषभ इवर्षभः प्राधान्यात् । विश्वरूपः सर्वरूपः सर्ववाग्व्याप्तेः ‘तद्यथा शंकुना” इत्यादिश्रुत्यन्तरात् । अत एवर्षभत्वमोङ्कारस्य । ओङ्कारो ह्यत्रोपास्य इति ऋषभादिशब्दैः स्तुतिन्याय्यैवोम्कारस्य । छन्दोभ्यो वेदेभ्यो, वेदा ह्यमृतं, तस्मादमृतात्, अधिसंबभूव--लोक देववेदव्याहृतिभ्यः सारिष्टं जिघृक्षो: प्रजापतेस्तपस्यत ओङ्कारः सारिष्ठत्वेन प्रत्यभादित्यर्थः । न हि नित्यस्योम्कारस्याञ्जसैवोत्पत्तिरवकल्पते । स एवंभूत ओम्कार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु बलयतु वा । प्रज्ञाबलं हि प्रार्थ्यते । अमृतस्य-अमृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य तदधिकारात् , हे देव, धारणो धारयिता भूयासं भवेयम् ।

आरोग्यादिहेतुर्मन्त्रः  किञ्च शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् । भूयादिति प्रथमपुरुषविपरिणामः । जिह्वा मे मधुमत्तमा मधुमत्यतिशयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवं (?विश्रब्धं) श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसङ्गतोऽस्त्विति वाक्यार्थः; मेधा


अवान्तरतात्पर्यमभिप्रेत्याऽऽह-यश्छन्दसामित्यादिना । संबभूवेति जन्मवाचके पदे श्रूयमाणे, किमिति “प्रजापतिर्लोकानभ्यतपत्” इत्यादिश्रुत्यन्तरानुसारेणे श्रेष्ठत्वेन प्रतिभानं व्याख्यायते ? तत्राऽऽह-न हीतिपुरुषविपरिणाम इति । भूयासमित्त्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः ।


(१) शै. उ. २-२३-४ (२) प्रार्थयते । इति पाठान्तरम् (३) व्यश्रवमित्यत्राडभावश्छान्दसः । झटिति श्र -० । एद्वमेव सर्वदिखितमुद्रिपुस्तकेषु पाठों लभ्यते !॥(४) छां. ड. २-२३२ (५)० रेणाईश्मशानयोग्यकार्यश्रेष्ठत्वेन इति पाठान्तरम्