पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२
तैत्तिरीयोपनिषत्

[ शिक्षावल्ली

इतीमा महासम्हिताः । य एवमेता महासम्हिता व्याख्याता वेद । संधीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन (४ ॥ संधिराचार्यः पूर्वरूपमित्यधिप्रजम् लेकेन ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां तृतीयोऽनुवाकः ॥ ३ ॥


इतीमा इत्युक्ता उपप्रदर्श्यन्ते। ऐहिकामुष्मिकफलसिद्धय उपासनाविधिः यः कश्विदेवमेता महासंहिता व्याख्याता वेद--उपास्ते वेदेत्युपासनं स्यात्, विज्ञानाधिकारात् ,"इति प्राचीनयोग्योपास्स्व” इति च वचनात् उपासनम् च यथाशास्त्रं तुल्यप्रत्ययसंततिः, असंकीर्णा चातत्प्रत्ययैः, शास्त्रोक्तालम्बनविषया च; प्रसिद्धश्चोपासनशब्दस्यार्थे लोके गुरुमुपास्ते,राजानमुपास्त इति; यो हि गुर्वादीन्सन्तंतमुपचरति,स उपास्त इत्युच्यते; स च फलमाप्नोत्युपासनस्य; अतोऽत्रापि च य एवम् वेद, - स सन्धीयते प्रजादिभिः स्वर्गान्तैः प्रजादिफलं प्राप्नोतीत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यः श्रीमच्छंकरभगवतः

कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये तृतीयोऽनुवाकः॥ ३ ॥


कर्तुरेकत्वाद, अनुष्ठेयानां बहुत्वात्, अवश्यंभाविनि क्रमविशेषे नियमार्था अथशब्दाः । ॐ हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वदंसः » इतिवत् । उपप्रदश्Qन्ते परामृश्यन्ते । अंधिकारविधिप्रदर्शनाय यथा दर्शादयः षड्याग्नाः समुचिताः फलसाधनम्, अधिकारांशे नाभेदात्, तथा पश्चोपनिषदः समुचिताः प्रजादिफलकामस्यानुष्ठेया इत्याह-यः कश्चि दित्युदिना । फलकामेनानुष्ठायमान संहितोपासनं कामितफलाय भवति; फलानभिसंधिना त्वनुष्ठीयमानं ब्रह्मविद्यार्थी भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमशक्यत्वान्मेधाकामस्य जपोऽपे ब्रह्मविद्यार्थी भवति । श्रीवि- हीनेन सर्वयद्दयर्थं यागाद्यनुष्ठातुमशक्यत्वादिति होमोऽपि श्रीकामस्य परम्परया ब्रह्मविद्यो पयोगीति महत्तात्पर्यं विषासत्रिधिसमाम्नातानां सर्वत्र द्रष्टव्यम् । श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशनविरचितायां तैत्तिरीयोपनिषच्छां करभाष्यटिप्पणे शिक्षावल्ल्यां तृतीयोऽनुवाकः ॥ ३ ॥ (१) १-.(२)ब्र.सू.४-१-१. भाष्यं द्रष्टव्यम् । (३) है.स.-३-१०-५.(४) जै.सू.११-१-१.५) सन्ति दीयागे त्रीणि प्रधानानि हवींषि, पूर्णमासयागे च त्रीणि । आग्नेयोऽष्टाकपालः, ऐन्द्रं दधि, ऐन्द्रं पयः इति दर्शयगे। आग्नेयोऽष्टाकपालःआज्येन प्राजापत्य उपांशुयागःअश्नीषोमीय एकादशकपालः-इति पौर्णमासे ।