पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽनुवाकः ]
सम्हितोपासना

[११

अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकांशः संधिः (१ )। वायु: संधानम् । इत्यधिलोकम्। अधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः संधिः। वैद्युत: संधानम् । इत्यधिज्यौतिषम् ।। अथाधिविधम् । आचार्यः पूर्वरूपम् (२)। अन्तेवास्युत्तररूपम्।। विद्या संधिः । प्रवचनम् संधानम् । इत्यधिविद्यम् । अथाधिप्रजम्। माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा संधिः । प्रजननं संधानम् । इत्याधिप्रजम् (३ ) अथाध्यात्मम्। अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् वाक्संधिः । जिह्वाम् संधानम् । इत्यध्यात्मम् ।

लोकादिविषया उपास्यावयवाः अथ तासां यथोपन्यस्तानां मध्येऽधिळोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थोऽथशब्दः सर्वत्र। पृथिवी पूर्वरूपं-पूर्वो वर्णः पूर्वरूपं संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा द्यौरुत्तररूपम्–आकाशोऽन्तरिक्षलोकः संधिर्मध्यं पूर्वोत्तररूपयोः संधीयेते अस्मिन्पूर्वोत्तररूपे--इति ॥ वायुः संधानम्-संधीयतेऽनेनेति । इत्यधिलोकं दर्शनमुक्तम् । अथाधिज्यौतिषमित्यादि समानम् ।


वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविंधाने हेतुरतःशब्देनोक्त इत्याह-यतोऽत्यर्थ मिति । पञ्चस्विति सप्तमी तृतीयार्थे परिणया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पदार्थाविशेषितं ज्ञानं वरौर्यं कर्तव्यम्, यथा विष्णुदर्शनं प्रतिमायामित्यर्थः । लोकेष्वधीत । लोकानधिकृत्य-उपादाय ध्येयत्वेनेत्यर्थः । वियाशब्देन वियाप्रतिबद्ध आचार्यादिविवक्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः पित्रादिविवक्षितः । अध्यात्ममिति-आत्मानं-भोक्तारम धिकृत्य यद्वर्तते जिह्वादि तद्विवक्षितम् । सर्वत्र तत्तदभिमानिनी देवतैव ग्राह्य, अन्यस्यो पास्यत्वासंभवादिति । विधिशेषमर्थवादमाह-ता एता इति । संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः। कथं कर्तव्याः ?–इत्याकाङ्कायां विनियोगविधिमाह--अथ तासामित्यादिना ।


(१)९षु वक्तव्यम् इति पाठान्तरम् (२) न्यथोपा' इति पाठान्तरम् ।