यशो जनेऽसानि स्वाह । श्रेयान्वस्यसोऽसानि स्वाह ।
तं त्वां भग प्रविशानि स्वाह । स मा भग प्रविश स्वाह ।
तस्मिन्त्सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाह ।
यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् ।
एवं मा ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाह ।
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ( ३ ) ॥
संप्रदायप्रवृत्तिजनितकीर्तिप्रदौ मन्त्रौ यशो यशस्वी जने जनसमूहेऽसानि भवानि । श्रेयान्प्रशस्यतरो वस्यसो वसीयसो वसुतराद्वसुमत्तराद्वाऽसानीत्यर्थः । किंच तं ब्रह्मणः कोशभूतं त्व त्वां हे भग भगवन्पूजाघन्प्रविशानि, प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । स त्वमपि मा मां भग भगवन्पूजावन्प्रविशाऽऽवयोरेकत्वमेवस्तु । तस्मिम्स्त्वयि सहस्रशाखे बहुभेदे हे भगवन्,निमृजे शोधयाम्यहं पापकृत्याम् । बहुशिष्यसंपादको मन्त्रः यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति,यथा च मासा अहर्जरं-संवत्सरोऽहर्जरः-अहोभिः परिवर्तमानो लोकाञ्जरयतीति, अहानि वाऽस्मिञ्जीर्यन्त्यन्तर्भवन्तीत्यहर्जरः-तं च यथा मासा यन्ति, एवं ब्रह्मचारिणो हे धातः सर्वस्य विधातः, मा मामायन्त्वागच्छन्तु सर्वतः सर्वदिग्भ्यः।
प्रतिवेशः श्रमापनयनस्थानमासन्नगृहमित्यर्थः, एवं त्वं प्रतिवेश इव प्र
वसे निवासे ६ ‘धेस आच्छादने' इति धातुद्वयादुप्रत्ययः शीलेऽर्थे । वड्वेंसनशीलः । पराच्छादनशीलो वा वसुः। अतिशयेन वखर्वसीयांस्तस्माद्वसयिसः । ईलोपश्छान्दसः । वसु मान्वसुशब्देन लक्ष्यत इत्यभिप्रेत्याऽहं वसुमत्तराहेति । पूर्वोक्तस्य प्रार्थनस्य प्रयो जनमाह--किञ्चेति। यदुक्तं ‘ब्रह्मचारिणो मामायन्तु ’ इति–तत्र दृष्टान्तमाह-यथेति ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरी- योपनिषच्छांकरभाष्यटिप्पणे शिक्षावल्ल्यां चतुर्थोऽनुवाकः ॥ ४॥
प्रकर्षः । दमित्यनेनाव्ययेन दान्तिरभिधीयते । बाहृन्द्रिचेष्टाभ्यो बाललीलाभ्य उपरतिरत्र दान्तिः । शमित्यनेन शान्तिरभिधीयते । क्रोधादिचत्तदोषराहित्यं शान्तिः । विमायान्वित्यादयश्चत्वारो मन्त्राः शाखान्तरगतत्वाभिप्रायेण केषुचिदेशेषु नानायन्ते ? =इति श्रीसायणाचार्यभाष्ये.
(१) धा' पा' १. १०३० (२) धा० पा° २• १३