पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तैत्तिरीयोपनिषत्

[ शिक्षावल्ली

सानुषङ्गः । तासु हि सुखकृत्सु, विद्याश्ररणधारणोपयोगा अप्रतिबन्धेन भविष्यन्ति, इति तत्सुखकर्तृत्वं प्रार्थ्यते- 'शं नो भवतु' इति। वायुरूपेण प्रत्यक्षस्य अन्तर्यामित्वेन प्रेरकस्य ब्रह्मण एव नमस्कारवदनक्रिये   ब्रह्म विविदिषुणा नमस्कारब्रह्मवदनक्रिये वायुविषये ब्रह्मविद्योपसर्गशान्त्यर्थं क्रियेते,सर्वक्रियाफलानां तदधीनत्वात्। ब्रह्म वायुस्तस्मै ब्रह्मणे नमः प्रह्वीभावं करोमीति वाक्यशेषः; नमस्ते तुभ्यं हे वायो; नमस्करोमीति परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते । किंच त्वमेव, चक्षुराद्यपेक्ष्य बाह्यम्, संनिकृष्टमव्यवहितं प्रत्यक्ष ब्रह्मासि यस्मात्, तस्मात्त्वामेव प्रत्यक्षम् ब्रह्म वदिष्यामि । ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं, तदपि त्वदधीनत्वात् त्वामेव वदिष्यामि । सत्यमिति --स एव वाक्कायाभ्यां संपाद्यमानोऽर्थः, सोऽपि त्वदधीन एव संपाद्यः—इति त्वामेव सत्यं वदिष्यामि । तत् सर्वात्मकं वाय्वाख्यम् ब्रह्म मयैवं स्तुतं सन्मां विद्यार्थिनमवतु विद्यासन्नियोजनेन; तदेव ब्रह्म वक्त्तारमाचार्यम् वक्त्तृत्वसामर्थ्यसंयोजनेन। 'अवतु मामवतु वक्तारम्' इति पुनर्वेचनमादरार्थम् ।'शान्तिः शान्तिः शान्तिः' इति त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थम्॥

श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः

कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये प्रथमोऽनुवाकः ॥ १ ॥


किमिति प्रायेंते ?--तत्राऽह-तासु हीति । श्रवणं--गुरुपादपसर्पणपूर्वकं वेदान्तनां तात्पर्यावधारणम् । धारणं--श्रुतस्याविस्मरणम् । उपयोगः--शिष्येभ्यो निवेदनम् । अन्यद्रह्म वायुञ्जन्य इति नाऽऽशङ्कनीयमित्याह-परोक्षेति । ब्रह्मणे इति । पारोक्ष्येण ‘स ब्रह्म त्यदित्याचक्षते’ इति श्रुतेःवायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणस्य प्रत्यक्षत्वा दित्यर्थः । यद्यपि सुत्रात्मरूपेण वायुः परोक्षःतथाऽप्याध्यात्मिकप्राणरूपेण ब्रह्मशब्दवा- च्यत्वेऽप्यपरोक्षत्वमित्याह-किं चेति। बाल्यं चक्षुरादि, रूपदर्शनाद्यनुमेयत्वाव, व्यवहितम्। प्राणस्त्वव्यवधानेन साक्षिवेयः सन्निहितश्च भोक्तरिति चक्षुरापेक्षया प्रत्यक्ष इत्यर्थः । श्रृंहणद्रव–प्राणकृतेन त्वशनादिना शरीरादेईंहणं प्रसिद्धमित्यर्थः । यथा राशो दौवारिकं कश्चिद्राजदिदृक्षुराह ‘ त्वमेव राजा’ इति, तथा हाईस्य ब्रह्मणो द्वारपं प्राणं हार्द ब्रह्म दिदृक्षुर्मुमुक्षुराह्व-त्वामेव प्रत्यक्षी ब्रह्म वृदिध्यामीति । ब्रह्मवदनक्रिया प्रणेदवतायाः स्तुत्यर्था । स्तुत्यन्तरमाह-ऋतमित्यादिना । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशनविरचिते तैत्तिरीयोपनिषच्छांकर भाष्यटिप्पणे शिक्षावल्ल्यां प्रथमोऽनुवाकः ॥ १ ॥


(१) वृ. उ. ३९-९ (२) विष्णु. पु. ११२-५७; ३-३-२१.