पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ शिक्षावल्ल्यां द्वितीयोऽनुवाकः ।

(शिक्षाध्यायः)

ॐ शीक्षाम् व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।

साम [१]संतानः । इत्युक्तः शीक्षांध्य्यः(१)॥

शीक्षां पञ्च [२]

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां द्वितीयोऽनुवाकः ।। २ ॥


अर्थज्ञानप्रधानत्वादुपनिषदो ग्रन्थपाठे यनोपरमो मा भूत्, इतिीशीक्षाध्याय दृष्टादृष्टोपकारी ग्रन्थ- आरश्यते । ‘शीक्षा’- शिक्ष्यतेऽनयेति वर्णाद्युच्चारणलक्ष पाठनियमो विहितः। णम्; शिक्ष्यन्त इति वा 'शिक्षा'-वर्णाद्यःशिंदैव शीक्षा, दैवें छान्दसम् । तां शीक्षां व्याख्यास्यामो वि स्पष्टम् आ समन्तात्कथयि श्यामः । चक्षिङः ख्याआदिष्टस्य व्यापूर्वस्य व्यक्तवाक्कर्मण एतदुपम् । तत्र वर्णाऽकारादिः। स्वर उदात्तादिः। मात्रा हस्वाद्याः । बलं प्रयत्नविशेषः । साम वर्णानां मध्यमवृत्योच्चारणं समता । सन्तानः सन्ततिः-संहितेत्यर्थः । एष हि शिक्षितव्योऽर्थः । शीक्षा यांमन्नध्याये सोऽयं शीक्षाध्यायःइत्येवमुक उदितः उक्त इत्युपसंहार उत्तरार्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिदाबीभाष्ये द्वितीयोऽनुवाकः ॥ २॥


यत्नपरम इति-स्वरोष्मव्यञ्जनादिप्रमादो मा भूत्, अन्यथा विवक्षितार्थसिद्धिरेव न स्यात् । तदुक्तम्

  • मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।

स वाग्वज्ञो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ *--इति । लक्षणमिति । लक्षणं शात्रम्-टुरषाणां मूर्धा, ‘इचुयशानां तालु-इत्यादि ।


(१) पाणिनिशिक्षा ५२; पा. महाभा. १-१-१. सच वाग्वजमंत्रः ‘इन्द्रशर्त्रुवर्धस्व’ इति तै. संहितायामसकृच्छूतः-२-४-१२-१;५-२-१; शतपथब्रा. १-५-२-१० इन्द्रशत्रुरिति पदे इन्द्रः शत्रु शतयिता ( मारयिता ) यस्येति बहुव्रीहौ आद्यपदोदात्तत्वम्, यथा ' इन्द्रम्शत्रुः' तेन चेन्द्रस्य शातनककर्तृत्वम् बोध्यते; इन्द्रस्य शत्रुरिति षष्ठीतत्पुरुषपक्षेऽन्त्यपदोदात्तत्वम्, यथा 'इन्द्रशत्रुः’ तेन चेन्द्रस्य शातनकर्मतयाऽवगमः।'सोऽयं मन्त्रगतः स्वरापराधः । अपराधाभावे सति, उन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति । अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते'। इति तै० सं० २.४.१२.१ सा० भाष्ये ।(२)? पाणिनिशि० १६-१८; सि.कौमुदी १०

  1. (१) पाणिनिशिक्षा ५२; पा. महाभा. १-१-१. सच वाग्वजमंत्रः ‘इन्द्रशर्त्रुवर्धस्व’ इति तै.संहितायामसकृच्छूतः-२-४-१२-१;५-२-१; शतपथब्रा. १-५-२-१० इन्द्रशत्रुरिति पदे इन्द्रः शत्रु शतयिता (मारयिता) यस्येति बहुव्रीहौ आद्यपदोदात्तत्वम्, यथा ' इन्द्रम्शत्रुः' तेन चेन्द्रस्य शातनककर्तृत्वम् बोध्यते; इन्द्रस्य शत्रुरिति षष्ठीतत्पुरुषपक्षेऽन्त्यपदोदात्तत्वम्, यथा 'इन्द्रशत्रुः’ तेन चेन्द्रस्य शातनकर्मतयाऽवगमः।'सोऽयं मन्त्रगतः स्वरापराधः । अपराधाभावे सति, उन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति । अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते'। इति तै० सं०२.४.१२.१ सा० भाष्ये
  2. (२)पाणिनिशि० १६-१८; सि.कौमुदी १०॥