पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ शिक्षावल्ल्या प्रथमोऽनुवाकः (शान्तिः ) इंद्रिः ॐ । शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यॐ ब्रह्मांसि । त्वमेव भृत्यद्वै ब्रह्म वदिष्यामि । तं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवंतु माम् । अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः (११) । शैत्यं वदिष्यामि पञ्च च ॥

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां प्रथमोऽनुवाकः । १ ॥


उपनिषदिति विद्योच्यते-तच्छीलिनां गर्भजन्मजरादिनिशातनात्, तबसा- दनाडाब्रह्मणो वोपनिगमयितृत्वात्, उपनिषण्णं वाऽस्यां उपनिषन्निर्वचनम् परं श्रेय इति; तदर्थत्वाद्रन्थोऽप्युपनिषत् ।


शं सुखं प्राणवृत्तेरह्श्वाभिमानी देवतात्मा मित्रो नोऽस्माकं भवतु । तथैवापान विद्याविनशा- वृत्ते रात्रश्चाभिमानी वरुणःचक्षुष्यादित्ये चाभिमानी अर्यमाः निप्रार्थना बले-बाहो-इन्द्रः वाचि, बुद्धौ च बृहस्पतिः विष्णुरुरुक्रमो विस्तीर्णक्रमः पादयोरभिमानी; एवमाद्यध्यात्मदेवताः ।‘शं नो भवतु’ इति


ब्रह्मविद्यायामुपनिषच्छदप्रसिद्धिरपि वियाया एव निःश्रेयससाधनत्वे प्रमाणमित्याह उपनिषदिति । निशातनाच्छिथिलीकरणादित्यर्थः । अस्यां वियायां निमित्तभूताय परं श्रेयो ब्रह्म जीवस्योपनिषण्णम्--आत्मतयोपस्थितं भवतीत्यर्थः ।


एवमुपनिषदो व्याख्यारम्भं संभाव्य, प्रतिपदव्याख्यामारभते--शं सुखमित्यादिना । शं नो भवत्विति--सुखकृद्भवत्वित्यर्थः । अध्यात्मप्राणकरणाभिमानिनीनां देवतानां सुखकृत्वं


(१) वाक्यदशकबोधकोऽयमङ्कः । एवमग्रेऽपि बोध्यम् । (२) एतदनुवाकगतवाक्यदशकसकलनार्थं तत्तद्वाक्यदशकान्तिमपदागणनम् । एवं प्रत्यनुवाकसमाप्तौ शेयम् । तदेतद्वाक्यसंग्रहणमनुवाकेषु वाक्यानां निक्षेपप्रक्षेपनिबन्धनन्यूनाधिक्यवारणाय पूर्वोचयैः प्रोक्तम् , अधीयते चाद्यापि स्वाध्यायवद । (३) अस्या एव ‘सांहित्युपनिषत्’-इति नामान्तरम् ।।