पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तैत्तिरीयोपनिषत्

तैतियएनं यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इंव-घटभावः पटभाव इति,--एवं निर्विशेषोऽपि भावाभावः क्रियागुणयोगाद्व्यादिवद्विकल्प्यते । न ह्यभाव उत्पलादिवद्विशेषणसहभावी, विशेषणवत्त्वे भाव एव स्यात् । विद्य इकडेंटित्वाद्विद्याकर्मसन्तानजनितमोक्षस्य नित्यत्वम् इति चेन्न, गङ्गास्नो तावत्तत्कर्तृत्वस्य दुःखरूपत्वात्; कर्तुवतेपरमे च मोक्षविच्छेदात्। तस्मादवि द्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चाऽऽत्मा ब्रह्म, तद्विज्ञानादविद्यानिवृत्तिमक्षः—इत्यतो ब्रह्मविद्यार्थोपनिषदारभ्यते।


मन्वानः शङ्कते-यद्धि नष्टमिति। भावरूपत्वादिति-यद्भावरूपं कार्यं तदनियमिति व्यातेः तवे च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थःप्रध्वंसाभावस्य कार्येत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तं कार्यं तदनित्यमिति व्याप्तिव्यख्याता । परमार्थतस्तु प्रध्धंसस्य कार्यत्वमपि नास्तीत्याह-प्रध्वंसेति। जन्याश्रयत्वं तावत्प्रध्वंसस्य न कार्यत्वम्, जनेनैरुकैर्भावविकर त्वाभ्युपगमात्; नापि प्रागसतः सत्तासमवायादिलक्षणम्, तदनभ्युपगमाव् ; नाप्युत्तरकाल योगः, कालेन संबन्धाभावाव , अवच्छेवावच्छेदकभावस्य संबन्धान्तरमूलकत्वदर्शनात्; उत्त- रकालस्य प्रध्वंसावच्छेदकत्वं स्वभाव, अन्यावच्छेदकत्वं स्वभावो न स्यात्; तस्मादभावस्य निर्विशेषत्वात् , कायेत्वं कल्पनामात्रमिति भावः । किंच, अभावस्य भावनिषेधमात्रस्वभाव त्वाव, भावविरोधित्वाचन भावरूपो धर्मः संभवतीत्याह--भावेति ।

ननु—अभावश्चतुर्विधः; तत्रानित्यः प्रागभावःप्रध्वंसादयस्तु नित्याः; ततः कथं निर्विशेष त्वमित्याशङ्कथाह-यथा हीति । विविप्रैत्ययस्यैकाकारत्वादेक एव भावो यथावच्छेदकभेद द्विन्न इव प्रकाशते, तथा निषेधप्रत्ययस्यैकाकारत्वात्, एक एवाभावोऽवच्छेदकभेदाद्भिन्न इव प्र काशते-जायते, नश्यति चेति क्रियायोगात्संख्यागुणयोगाद्व्यवद् विकल्प्यते,--न तु तत्त्वतः सविशेष इत्यर्थः । इतश्च न तत्वतः सविशेष इत्याह--नहीति । विशेषणं हि विशेष्यान्वयि प्रसि दम् । प्रतियोगिता च विशेषणेन नाभावस्य सहभावोऽस्ति, घटप्रध्वंसस्य नित्यत्वे, घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावत्वव्याघातात्, भावाभावयोः सहानवस्थानरूप विरोधाभ्युपगमात् । ततः प्रतियोगिविशषादभावः सविशेषः, कार्यत्वादिधर्मवान्--इति विध्र ममात्रमित्यर्थः । एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य, प्रकारान्तरेणाऽऽययूथ निषे- धाति–विश्वकर्मेत्यादिना । वियाकर्मणोः कर्ता नित्यः--इति साधनसान्तत्यात्साध्यसा- न्तत्यं न वाच्यम् । कर्तृत्वस्याउपरमेऽनिमक्षप्रसङ्गन् , उपरमे च साधनसान्तत्याभावान्मो- क्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मान्निःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं, तस्मादित्युपसंहारः।


(१) तद्वन्मो० इति पाठान्तरम् । (२)‘षड्भावविकारा भवन्तीति वाष्र्यायणिः--जायते, अस्ति, विप रिमणते, वर्धते, अपक्षीयते, विनश्यति”-इति निरुक्ते १-२- ( ३) भावप्रत्यय-इति पाठान्तरम् ।