पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


भाष्योपोद्घातः

अन्यथा ह्यभावाद्भावोत्पत्तिः--इति सर्वेप्रमाणव्याकोपः, इत्यतोऽयत्नतः 'स्वात्मन्यवस्थानमित्यनुपपन्नम् ।

यच्चोक्तं—निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारब्ध एव मोक्षः-इति तन्न, नित्यत्वान्मोक्षस्य । नहि नित्यं किञ्चिदारभ्यते लोके, यदारब्धं तदनित्यम्, इत्यतो न कर्मारभ्यो मोक्षः।

विद्याकर्मसमुच्चय वादनिरासः   विद्यासहितानां कर्मणां नियारम्भसामर्थ्यम्--इति चेन्न; -विरोधात्; 'नित्यं' च ‘आरभ्यते’ इति च विरुद्धम् । यद्धिम् नष्टं तदेव नोत्पद्यते--इति प्रध्वंसाभाववन्नित्योऽपि मोक्ष आरभ्य एव--इति चेन्न,-मोक्षस्य भावरूपत्वात् । प्रध्वंसाभावोऽप्यारभ्यत इति--अभावस्य विशेषाभावात्-विकल्पमात्रमेतत् । भावप्रतियोगी ह्यभावः।


ननु–“लक्षणहेत्वोः क्रियाया:’[१] इति शतृप्रत्ययस्योभयत्र विधाने सति, किमिति हेतुत्वमेव न गृह्यते ? तत्राह--अन्यथेति । भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवधारितं, शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः। ननु- त्वयाऽप्यकरणस्य प्रत्यवायलक्षकत्वमिष्टं; भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते; तार्किकैश्च प्रतिबन्धकाभावस्य, तत्तत्प्रागभावस्य च, तत्तत्कार्यव्यवस्थापकत्वमिष्यते; तत्कथं भावस्यैव कारणत्वम्? तदुक्तम्--"भावो यथा तथाऽभावः कारणं कार्यवन्मत:” [२] इति । उच्यते--अस्माभिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टम् । किंतु तज्ज्ञानस्य प्रत्यवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते, नित्याकरणाज्ञाने प्रत्यवायाभावप्रसङ्गात् ।भाट्टानामपि च केषांचिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रमितिहेतुत्वम्, सत्तया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः[३] । तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वेऽन्योन्याश्रयत्वप्रसङ्गात्, न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्मज्ञापकत्वमेव-यस्मादिदं प्राङ् नाऽऽसीत्तस्मादिदानीं जातमिति—न तु जनकत्वम् । प्रागभावस्य नियतप्राग्भावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः। प्राग्भावित्वमपि चान्यथासिद्धमित्युक्तं तत्त्वालोके। यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म, किंतु "कर्मणा पितृलोक:"[४] ,"सर्व एते पुण्यलोका भवन्ति"[५] इति श्रुतेः पितृछोकप्राप्तिफलम्, तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह--इत्यत इति ।   द्वितीयमतमनूद्य दूषयति - यच्चोक्तमित्यादिना । विद्यासहितेनापि कर्मणाऽऽरभ्यश्चेन्मोक्षः, तर्ह्यनित्य एव -यत्कृतकं तदनित्यमिति व्याप्तिदर्शनात्--इत्युक्तम्; तत्र व्याप्तिभङ्गम्


(१) पा. सू. ३-२-१२६ (२) न्यायकुसुमाञ्जलिः १-१० (३) न्यायकुसुमाञ्जलिः ३-२० (४) बृ. उ. १-५-१६ (५) छां.उ.२-२३-२

  1. (१)पा. सू. ३-२-१२६
  2. (२) न्यायकुसुमाञ्जलिः १-१०
  3. (३)न्यायकुसुमाञ्जलिः ३-२०
  4. (४)बृ.उ. १-५-१६
  5. (५) छां.उ.२-२३-२