पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) भक्त आत्मन ऐक्ये सिद्धे युक्त्या यत्तस्य क्षणभङ्गसमर्थनं, तद्बाह्यार्थक्षणिकत्वसा- धनाय—यत्सत् तत्क्षणिकमितिव्याप्तेरनैकान्तिकत्वपरिहारेण समर्थनार्थम् । न च प्रयोजनवशाद्वस्तुनोऽन्यथात्वं शास्त्रकर्ता कथं प्रतिपादयेदिति शङ्कनीयम् । यतो भाट्टाः स्वप्रकाशविज्ञानाकार एव घटादिः, न तु बाह्य इति बाह्यार्थास्तित्वमपलपतो बौद्धान्निराकर्तुं स्वानुभवसिद्धं ज्ञानस्य स्वप्रकाशत्वं परित्यज्य जियानुदेशलम्राहुः । तथा सति ह्ययं घट इत्यादिज्ञानेषु ज्ञानव्यक्तेरप्रत्यक्षत्वात्प्रत्यक्षत्वेन प्रतीयमानो घटाद्याकारो बाह्यार्थस्तस्यैवेति तेषामभिप्रायः । एवं विज्ञानादिरोऽपि योऽहमद्राक्षं स एवेदानीं स्पृशामीति पूर्वोत्तरक्षणयोरेकत्वप्रतिसंधानेनाऽऽत्मनः स्थायित्वे स्वानु भवसिद्धे यत्क्षणभङ्गसमर्थनं, तदुक्तप्रयोजनायैवेत्यस्मदुक्तार्थतात्पर्यै नैव व्याहन्यते । मीमांसकानां शास्त्रं तु भिन्नविषयत्वाद्यथोदीरितात्मस्वरूपं न विरुणद्धि । तथाहि-वेदाप्रमाण्यवादिनो बौद्धान्निराकृत्य तत्प्रामाण्यं समर्थयमाना भाट्टाः प्राभाकराश्च वेदोक्तं यागहोमादिकं निर्वर्त्य स्वर्गादौ तत्फलमुपभोक्तुं देहाति-- रिक्तः कश्चिदात्मा कर्ता भोक्तास्तीति तन्नास्तित्ववादिनञ्चार्वाकादीन्निराचक्रुः । कर्तृत्वभोक्तृत्वविशिष्टात्मस्वरूपप्रतिपादनस्यैव स्वशास्त्रप्रतिपाद्ययागदानाद्यौपाय - कत्वात् तावन्मात्रस्वरूपमात्मनस्तैः प्रतिपादितम् । न त्वौपनिषदं कर्तृत्वभोक्तृत्वा- दिसर्वविक्रियादिरहितं रूपम् । तदवगमस्य स्वशास्त्रे प्रयोजनाभावात् । तदुक्तं भग- वद्भिर्भाष्यकारैः --- " अनुपयोगादधिकारविरोधाच " इति (ब्र. सू. १.१.१.)। ननु कर्त्रात्मस्वरूपप्रतिपादनं तदतिरिक्तस्वरूपास्तित्वनिषेधपरं कस्मान्न भवति ? तदस्तित्वाङ्गीकारादिति ब्रूमः । तत्र तावद्भट्टाचार्या:-- इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदन युक्त्या | दृढत्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेन || - - श्लो. वा. आत्मवादे १४८.. गुरुमतानुसारिणा भवनाथेनाप्युक्तमर्थवादाधिकरणे — अथवा न वेदान्तानां चोदनैकवाक्यता । “अथातो ब्रह्मजिज्ञासा” ( ब्र. सू. १.१.१. ) इति शास्त्रा- न्तरस्थितेरिति । तस्मान्मीमांसकानामप्युपनिषदेकसमधिगम्यमद्वितीयब्रह्मात्मैकत्व- मभिमतमेवेति तच्छास्त्रमप्यस्मदुक्तेऽर्थे पर्यवस्यति । एवं शास्त्रान्तरमागमान्तरं चा- स्मिन्नेवार्थे योजनीयम् । j । - तात्पर्यदीपिका. ४.८.२४-९-