पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३) त्वेनैव प्रपञ्चवन्मिध्यात्वम् । यदि व्यवहारदशायामेक एवाऽऽत्मेत्यभिधीयेत, तदा तत्तदुषाधिपरिकल्पनेन जीवेश्वरव्यवस्था सुखदुःखादिव्यवस्था च प्रयाससमर्थनीया स्यादित्यभिप्रायेणैव तन्नानात्ववर्णनम् । मुक्तौ तु वेदान्तिनामिव सांख्यांदीना- मपि केवलात्मस्वरूपप्रतिभास एव संमत इति परमार्थतोऽद्विजकत्वमा सिद्धम् । व्यवहारमात्र औपाधिकं स्वाभाविकमिति केवलं विवादः । आनन्दरूपत्वं च पातञ्जलसूत्रभाष्यकारोदाहृतत्वाज्जैगीषव्योपाख्यानादद्वगम्यते ( ३. १८. ).। जैगीषव्यो हि परमयोगीश्वरो योगमहिनाऽणिमाद्यश्वर्य प्राप्य बहून् ब्रह्मसर्गान् संस्मृत्य तत्र सर्वत्रोपरतो दिव्यज्ञानेन साक्षात्कृते स्वात्मतत्त्वे कृतप्रणिधानः परमर्षियोगैश्वर्यप्राप्तास्वणिमादिषु किं सुखमनुभूतं त्वया ? इति पृष्टे, न किंचिदिति प्रत्युक्तवान् । अणिमाद्या विभूतिः केवलसुखात्मिका, कथमेवं वदसि ?–इति पृष्टः सन्नवोचत्— सत्यम् । सांसारिकसुखापेक्षयाऽणिमाद्यैश्वर्यम- धिकसुखावहम् । कैवल्यापेक्षया तु दुःखात्मकमेवेति । एवं चात्यन्तानुकूलवेद्यत्व- मात्मन उक्तं भवति । एतदेवात्मन आनन्दरूपत्वं नाम, तथाप्यानन्दरूप इति न व्यवहरन्ति । सुखेष्वेवानन्दशब्दस्य व्युत्पत्तेः । “इत्थं नैयायिकवैशेषिकादीनामपि मते ज्ञानान्मोक्षः । मुक्तस्य स्वव्यतिरिक्तानात्म- `लक्षणजगतोऽप्रतिपत्तिः समानैवेति तैरपि सांख्यादिवदात्माद्वितीयत्वं, प्रपञ्चमिथ्या- त्वं चावश्यङ्गीकार्यम् । ब्रह्मेन्द्रादिपदादपि श्रेयस्त्वेन मुक्तेः प्रार्थ्यमानत्वादत्यन्तानु- कूलवेद्यत्वं च । ननु ते नवगुणानामत्यन्तोच्छेदो मोक्ष इति मुक्तौ ज्ञानस्याप्यभावमि- च्छन्ति। सत्यम् । आत्मस्वरूपचैतन्यस्यात्यन्तनिर्विकल्पकत्वात्तेषामनवभानाभिमानः। अत एव शून्यवादिनोऽनवभानमात्मैव नास्तीति प्रतिपन्नाः । शास्त्रज्ञदृष्ट्या

प्रातर्गजाभावज्ञाने संत्येव यथा लौकिकजनस्यादर्शनाभिमानो ग्राहकविज्ञानस्य

निर्विकल्पकत्वात् एवमेवात्मस्वरूपचैतन्यस्यात्यन्त निर्विकल्पकालना- भावविषयमेव मुक्तौ ज्ञानराहित्यवर्णनम् । शून्यवादेऽप्ययमेवाभिप्रायो योज्यः । विज्ञानवादिनस्तु क्षणिकज्ञानप्रवाह आत्मेति वर्णयन्ति । तेषां मतेऽपि सांवृतस्य विषयोपलवस्य विद्यया विनिवृत्तौ विशुद्धज्ञानसंतानोदयो मुक्तिः । उक्तं हि-धीसं- ततिः स्फुरति निर्विषयोपरागेति । संतानो नाम नानाव्यक्तीनां नैरन्तर्येण वर्त - नम् । तच्चानुभवदंशायां सैवेयं दीपज्वालेतिवदेकत्वेनानुभूयमानत्वम् । तथा चानु-