पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२) ( २ ) अद्वैतदर्शनस्य मतान्तरैर्वरोधः । स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुष्यन्ते तैरयं न विरुध्यते || अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुष्यते || - माण्डूक्योपनिषत्कारिका ३. १७–१८. प्रपञ्चस्य मिथ्यात्वं, जीवपरमात्मनोरेकत्वं, तस्य चाऽऽत्मनः सच्चिदानन्दरूपत्वं, अद्वितीयत्वं चेत्येतस्मिन्नर्थे तावद्वेदान्तानां तद्नुसारिणां स्मृतीतिहासपुराणानां चैदं- पर्यमविवादम् । अन्येषामपि तैथिकानामीग्विधव्यवहारमकुर्वतां प्रायेणैतदभिमत- मेव। तथाहि——तत्र सांख्यपातञ्जलशैवास्तावदात्मनः सञ्चिद्रूपत्वमङ्गीकुर्वते । यद्यपि व्यवहारदशायां प्रकृतिप्राकृतलक्षणप्रपञ्चस्य सत्यत्वमात्मनानात्वं च व्यवहरन्ति, तथापि कैवल्यदशायां स्वरूपप्रकाशव्यतिरेकेण तस्य सर्वस्यानवभानं वर्णयन्ति । आत्मयाथात्म्यज्ञानलक्षणायाः प्रकृतिपुरुषविवेकख्यातेर्हि कैवल्यम् । तथाविधज्ञानो- त्तरकालं प्रकृतिप्राकृतार्थात्मकं जगत्सर्वथा न भातं चेत्, तदस्तित्वं कथं निश्चीयेत? -ज्ञेयसिद्धेर्ज्ञानाधीनत्वात् । अत आत्मयाथात्म्यज्ञानेन निवर्तितमेव तत् । तस्मात्प्र- पञ्चस्याज्ञानस्य ज्ञाननिवर्त्यत्वेन मिथ्यात्वमभ्युपगन्तव्यम् । ज्ञाननिवर्त्यानां शुक्ति- रूप्यादीनां मिथ्यात्वदर्शनात् । किंच “कृतार्थं तं प्रति नष्टमप्यनष्टं तत्साधारण- त्वात्” इति पातञ्जलं सूत्रम् ( २. २२. ) । अनेन च प्रकृतिप्राकृतात्मकं जगन्मु- तापेक्षयानष्टं, तदितरापेक्षया विद्यमानमेवेति पुरुषविशेषापेक्षया तस्याभावस- द्भावौ प्रतिपाद्येते । तच्च तन्मिथ्यात्वेऽवकल्पते । पुरुषविशेषमपेक्ष्यैकस्यैव वस्तुनः सद्भावाभावयोः शुक्तिरूप्यादौ दर्शनात् । तत्र हि काचकामलादिदोषदूषितनेत्रः पुरुषः शुक्तौ रूप्यसद्भावं प्रतिपद्यते । तदितरस्तु शुक्तिस्वरूपमेव जानंस्तत्र रूप्याभा- वमवगच्छति । न हि पारमार्थिकं घटादि पुरुषविशेषं प्रति सद्भावासद्भावौ युग- पत्प्राप्नोति । तस्मात्स्वरूपज्ञानपर्यन्तमनुवर्तमानस्य तत प्रपञ्चस्य वेदान्तिनामिव सांख्यादीनामप्यविशेषान्मिथ्यात्वं सिद्धम् । अथापि कस्मान्न व्यवहरन्तीति चेत्, श्रोतुर्बुद्धिसमाधानार्थमिति ब्रूमः । स खलु प्रथमत एव सर्वे मिथ्येत्युक्ते, कथमेतद्घटते ? –इति व्याकुलितमनस्को भवेत् । तन्मा भूदिति सत्यत्वव्यवहार एव केवलम् । आत्मनानात्वस्य जीवेश्वरभेदस्य च मुक्तावनवभात- प्रतिभासमानस्य ★ ,