पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ शंकरानन्दकृता [ भृगुवली रूप इति योऽन्नस्य दाताऽऽत्मनो वा सर्वाभिन्नस्य तत्त्वमसीत्यादिवाक्येभ्यो दाता क्षुषा- ते॑भ्यः संसारतापतप्तेभ्यो वा मा माम् । अन्नमानन्दात्मरूपं वा ददाति प्रयच्छति । स उक्तो दाता । इदित्थं दानं कुर्वन् । एवमनेन दानेन । आ३वा - अवोऽवतीत्यर्थः । अका- रतिराचर्यार्था । मां सर्वाभिन्नमपि रक्षयतीति । · ननु – अन्ने दीयमाने कथं भवान्दत्त इत्यत आह - अहंमन्नं व्याख्यातम् । ननु - अन्नस्य दानेनाऽत्मनो वा अन्नभक्षणजं । सुकृतं भवतु दातुः । यस्य तु तस्मिन्नभिलाषः स तु त्वामन्नमात्मानं वा परस्मै मा प्रयच्छतु । भक्षयतु स्वयं काममन्नं कोऽस्यानर्थ इत्यत आह – अन्नमदनीयं मां तद्रूपमात्मानं वाऽदत्त्वा । अदन्तं भक्षयन्तम् । आ३झि – अनि भक्षयाम्यन्नभक्षकम् । अकारे प्लुतिराचर्यार्था । सर्वाभित्रोऽप्येवं भक्षयामीति । ननु यथा त्वमेनं भक्षयसि तथा त्वामप्यन्यः । यथा मण्डूक: क्षुद्रं जीवं तं सर्पः सर्प मकरो विश्वस्य विचित्रशक्तिभूताक्रान्तत्वात्ततो न भवतः प्राप्तिः पुरुषार्थ इत्यत आह - अह- मानन्दात्मा विश्वं निखिलं भुवनं भवन्त्यस्मिन्भूतानीति भवनं भवनमेव भुवनम् । अवि- यातत्कार्यतत्संस्कारजातं कार्यकारणरूपमित्यर्थः । अभ्यभवामभ्यभवं स्वकीयेनाऽऽनन्दात्म- रूपेण देशकालवस्तुपरिच्छेदशन्येन चरमवृत्तिसाक्षात्कारविषयेण निखिलमिदमात्मरूप- कारणेन परिभवामि । अतो न मम कश्चन भक्षकः कित्वमेव सर्वस्य । ततो न मत्प्रा- प्तिरपुरुषार्थ इत्यर्थः । ननु – सर्वाभेदेऽन्येभ्यः कस्त्वय्यतिशय इत्यत आह - सुवर्न | सुवर्णस्तत्समानवर्ण आदित्य इव सुवर्णः । ज्योतीज्योतिः प्रकाशः स्वयंप्रकाशानन्दरूपोऽहं ततो मय्यतिशय इत्यर्थः । इदानीं श्रुतिराह-योऽधिकारी । एवमुक्तप्रकारमानन्दात्मानम् | वेद जानाति साक्षात्करोतीत्यर्थः । सोऽपीमाँल्लोकानित्यादिनोक्तं फलं प्राप्नोतीत्यभिप्रायः । इत्युपनिषत् । व्याख्यातं पूर्ववल्ल्याम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्यां दशमेाऽनुवाकः ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपाद शिष्यस्य श्रीशंकरानन्दभगवतः कृतौ पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दी- पिकायां भृगुवल्ली समाप्ता ॥ ३ ॥ ( १ ) त्वद्रक्षणजं–पाठः ।