पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाक: ] तैत्तिरीयोपनिषद्दीपिका एवमानन्दे ब्रह्मण्युपासनान्युक्त्वेदानीं धिदैवादिभेदरहितमानन्दात्मानमाह–स स्थिरचेतसमधिकारिण: पलभ्य पूर्ववलयुक्तमेवा- यश्चायं पुरुषे । यश्चासावादित्ये । स एकः। सय एवंवित् | अस्माल्लोकात्प्रेत्य | एतमन्नमयमात्मानः- पसंक्रम्य | एतं प्राण- मयमात्मानमुपसंक्रम्य । एतं मनोमयमात्मानमुपसंक्रम्य | पतं ि त्मानमुपसंक्रम्य । एतमानन्दमयमात्मानः पसंक्रम्य | व्याख्यातं पूर्ववल्लयाम् । इयांस्तु विशेषः । पूर्वं विदेहकैवल्यस्याभिधानात्पञ्चकोशे लटः प्रयोगः । इदानीं तु जीव- मुक्तेरभिधानात्तेष्वेव ल्यपः प्रयोगः । इमान्भूरादील्लोकान्कर्मफलभूतान् | कामानी कामं यथाभिलाषमन्नमदनीयमस्या- स्तीति कामात्री | कामरूपी कामं यथाभिलाषं रूपमस्यास्तीति कामरूपी | अनुसंचर- नात्मसाक्षात्कारमनु इमाँल्लोकान्सम्यक्चरन्पर्यटन्मानुषेण शरीरेणाऽऽधिकारिकेण वा । एतद्वक्ष्यमाणं लोकानुग्रहार्थम् । साम समत्वप्रतिपादकं वचनं संसारशलार्पितान्प्राणिनो निरीक्ष्य भृशं करुणाक्रान्तमना गायत्रत्युन्नता शब्दाकुर्वन् । दग्धपटन्यायेन शरीरं गृहीत्वाऽऽस्ते तिष्ठति । अतः संगच्छत है जना मा संसारशूले पततेति श्रुतेः करुणावत्या मातुरिवाभिप्रायः । हावु हावु हावु लोकत्रयीस्थान्संबोधयति वचनत्रयेण | अहो अहो अहो इति पछुतिः पदत्रयेऽप्याश्चर्यार्था । अहम् — आनन्दात्माऽसङ्गोदासीनोऽनायनिर्वा च्याविद्यया | अन्नमदनीयमुपभोग्यमित्यर्थः । इदं भूलकस्थाप्रति । अहमन्नम मन्त्र व्याख्यातम् । अन्तरिक्षस्वलोंकस्थान्प्रति वचनद्वयम् | अहं व्याख्यातम् । अन्नादोऽत्र- मत्तीत्यन्नादो भोक्ता । इदं भूकस्थाप्रति । अहमन्नादोऽ३हमन्नादः -व्याख्यातम् । इदमन्तरिक्षस्वर्लोकद्वयस्थान्प्रति । - इदानीं कीर्तिकारित्वमपि स्वस्यैवेति लोकत्रयीस्थान्प्रति पूर्ववत्कथयति–अश्लोक- कृदह श्लोकदह श्लोककृत् । श्लोकः कीर्तिस्तां करोतीति श्लोककृत् । व्याख्या तमन्यत् । पूर्वं वाक्यत्रयेण संबोधनेनानान्नाद श्लोककृत्वमात्मन उक्त्वा लोकत्रयों प्रति विभागेन इदानीमविभागेन कार्यकारणरूपत्वमात्मन आह - अहमानन्दात्मा । अस्मि भवामि । प्रथमजाः प्रथमजो हिरण्यगर्भ इत्यर्थः । ऋता ३स्य ऋतस्य मूर्तामूर्तात्मकस्य सत्यस्य प्रपञ्चस्य कर्ता प्रथमत इत्यर्थः । ऋता इति प्लुतिराश्चर्यार्था । नतु—संसारात्पूर्वं देवाः प्रसिद्धा इत्यत आह - पूर्व प्रथमः । देवेभ्यो विराडवयव- भूतेभ्योऽग्न्यादिभ्यः । अमृतस्यामरणधर्मिणो वेदस्य | ना ३भायि नाभिर्मध्यं वेदरहस्य- मित्यर्थः । अत्रापि नकारे लुतिराअर्यार्था । कार्यकारणहीनोऽसङ्गोदासीनोऽहं वेदगर्भ इत्येवं- ( १ ) यथा दग्धोऽपि पटः किंचित्कालपर्यन्तं स्वाकारं न जहाति, तथा ज्ञानाग्निदग्धकर्मा वासनाक्षयेण नष्टमपि शरीरं धृत्वा करुणाक्रान्तो गायन्नास्त इति भावः ।