पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ भृगुवल्ली इत्यध्यात्मोपासनासमाप्त्यर्थः । मानुषीर्मनुष्यसंबन्विनीः । समाज्ञाः सम्यगाज्ञा उपासनाः । जानीयादिति शेषः । . अथ मानुष्युपासनाकथनसमनन्तरम् । दैवीर्देवसंबन्धिनीः | समाज्ञा इत्यनुषङ्गः । कथ- यामीति शेषः । तृप्तिर्ब्रह्माशनपानजा तुष्टिः । इत्यनेन प्रकारेण । वृष्टौ वर्षकरसमेघोदरात्रि- तास नीरधागस । बलं ब्रह्मभूयसामप्यभिभवकारणं सत्त्वम् । इत्यनेन प्रकारेण । विद्युत्यचिरप्रभायाम् | यशः कीर्तिरूपं ब्रह्म । इत्यनेन प्रकारेण । पशुषुः गवादिषु । ज्योतिः प्रकाशरूपं ब्रह्म । इत्यनेन प्रकारेण । नक्षत्रेषूडपेषु । प्रजातिर्ब्रह्म प्रजननरूपम् । अमृतं ब्रह्म प्रियालिङ्गनदर्शनादिरूपं मैथुनं क्षुद्रसुखरूपम् । आनन्दो ब्रह्म मैथुनक्रियानिटं- त्तिजं सुखं पुत्रफलम् । इत्यनेन प्रकारेण | उपस्थ उपस्थेन्दिये । सर्व निखिलमाकाशा- दिवाकायजातं ब्रह्म । इत्यनेन प्रकारेण । आकाशे भूताकाशेऽव्याकृतेः वा । तद्ब्रह्म । प्रतिष्ठा प्रतितिष्ठत्यस्मिन्कार्यकारणजातमिति प्रतिष्ठा सर्वाधार इत्यर्थः । इत्यनेन प्रकारेण । उपासीतोपासनं कुर्यात् । ४० तत्र फलमाह – प्रतिष्ठावानाधारवान्भवति स्पष्टम् । तन्मह इत्युपासीत | महा- न्भवति । महो व्याहृतिरूपं तेजो वा । महान्सर्वस्मादभ्यधिकः । व्याख्यातमन्यत् । तन्मन इत्युपासीत । मानवान्भवति । मनः संकल्पविकल्पात्मकः । मानोऽभिमानो मननं वा तद्वान् । अभिमानपक्षेखण्डिताभिमान इत्यर्थः । व्याख्यातमन्यत् । तन्नम इत्युपासीत । नमो नमनगुणवत् | व्याख्यातमन्यत् । तत्र फलमाह–नम्यन्ते नता भवन्ति प्राप्नुवन्तीत्यर्थः । अस्मै ब्रह्म नम इत्युपासकाय | कामाः कामनाविषयाः पुत्रादयः। तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति । ब्रह्म परिढं वेदरूपं वा । तद्वान्ब्रह्मवान् । परिवृढपक्षे स्वयं परिवृढो भवतीत्यर्थः । व्याख्यातमन्यत् । तद्ब्रह्म (?) । ब्रह्मणोऽसङ्गोदासीनस्य । परिमरः परिम्रियन्ते विशुदृष्टिचन्द्रमा आदित्योऽग्निरस्मिन्निति वायुः परिमरस्तजनक आकाशोऽपि परिमरः । अथवा सर्वविनाशकः कालः परिमरः । ब्रह्मणा संबद्धश्च स इत्याकाशः | परिमरगुणविशिष्टः काल एव वा । सर्वोपसंहारकायें । इति अनेन प्रकारेण । उपासीतोपासनं कुर्यात् । पर्येणं सर्वत उपासकं म्रियन्ते विनश्यन्ति । द्विषन्तो द्वेषं कुर्वन्तः । सपत्नाः कामादयो बाह्या वा वैरिणः । सपत्नीमातृजा वा । स्वस्य प्रिया अप्यसाधुत्वादशानाद्वा । परि सर्वतः । ये प्रसिद्धाः । अप्रियाः कर्णनेत्रमनोदाहकाः । स्वस्य भ्रातृव्या वैरिणो द्विषन्तोऽपि, अयमस्माकं वैरी, अस्यानिष्टमस्माभिः करणीयमित्युपासके संकल्पवतः, उपासको वैते मयि वैरिण इति संकल्पं करोति येषु वैरमकुर्वाणेष्वपि, ते सर्वे विनश्यन्तीत्यर्थः । ( १ ) अपि सा ° । ( २ ) संकल्पयन्तः पाठः ।