पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाकः ] तैत्तिरीयोपनिषद्दीपिका श्रीह्यादिकं प्राप्नुयाद्भवेत् । यद्यप्यन्नं बहु कुर्वीतेत्यनेनैव तदुक्तं तथापि तद्ब्रतमित्यभिषा- नादुपासनाङ्गोऽयं नियमविधिरितिबुद्धिनिवारणार्थं स्वातन्त्र्येण पुरुषार्थत्वं दर्शयितुं पुन- राह । ननु –अन्नं स्वोपभोगायैव संपायं न त्वन्यस्मै दानाय, प्रमाणाभावात्, इत्यत आइ- अराधि संसिद्धम् । अस्मै गृहे समागतायातिथये । अनमदनीयम् । इत्यनेन प्रकारेण स्वभार्यादीन्प्रति । आचक्षते कथयन्ति विद्वांसो गृहंस्थाः । अनेन गुरुंरातः प्रमाणमन्त्रदाने कथिता । इदानीं दीयमानेऽन्ने देशकालपात्रश्रद्धासत्कारादिसंपत्तिरङ्गमित्येतदर्थं यथा दत्तं तथैव फलं भवतीत्याह – एतद्वै प्रसिद्धम् । मुखतो सुखे मुख्ये देशे काले पात्रे च मुख्यया श्रद्धाप्र- णिपातसत्कारादिरूपया वृत्त्या मुख्यमन्नमदनीयम् । राद्धं संसिद्धं दत्तमित्यर्थः । यदि ता मुखतो मुख्ये देशे काले मुख्यया वृत्त्या मुख्यं मुख्याय । अस्मा अन्नस्य दात्रे | अन्न- मदनीयम् । राज्यते संसिद्धं भवति । एतद्वै मध्यतोऽन्न ५ राद्धम् । मध्यतोऽस्मा अन्न ५राध्यते । एतद्वा अन्ततोऽन्न ५ राद्धम् । अन्ततोऽस्मा अन्न ९ राज्यते । मध्यतो मध्यमदेशे काले पात्रे च मध्यमया वृत्त्या मध्यमम् । अन्ततोऽन्ते जघन्यदेशे काले पात्रे च जघन्यया वृत्त्या तिरस्कारादिरूपया जघन्यम् । व्याख्यातमन्यत्पर्यायद्वयेऽपि । यत्र देशे यस्मिन्काले यद्वर्णाश्रमिणे यादृशाचाराय यस्मिन्वयसि यद्दत्तमन्नमन्यद्वा दातुरपि तस्मि- न्देशे तस्मिन्काले तद्वर्णाश्रमिणस्तादृशाचारस्य तस्मिन्वयसि तादृशं तदन्नमन्यद्वा संपवत इत्यर्थः । इदानीं यथोक्तविशेषणविशिष्टस्य दाने यत्फलमुत्कृष्टं तदेव तद्दानज्ञानेऽपीत्याह—–—योऽन्नदानस्य फलाभिशः । एवमुक्तेन प्रकारेण | वेदात्रदानफलमुत्तममुपास्ते । सोऽपि मुखतोऽनं लभत इति शेषः । तस्मान्मुखतोऽनं देयमिति संदर्भार्थः । एवमन्नप्राणमनोविज्ञानानां कार्यरूपेण केनचित्कारणरूपेण चोपासनान्पुक्त्वेदानीमानन्दस्य ब्रह्मण उपासनान्याह – क्षेमः प्राप्तस्य रक्षणम् । इत्यनेन प्रकारेण । वाचि वागिन्द्रिये मदीया वाग्ब्रह्मरूपेत्युपासीत । तदुपास- नाच क्षेमरूपं फलमिति तात्पर्यार्थः । अत्र क्रियापदादर्शन उपासीतेत्यध्याहारः । फलादर्शने च गुणानुरूपं फलमिति सर्वत्रावगन्तव्यम् । - । योगक्षेमः – अप्राप्तस्य प्राप्तिर्हि योगः, प्राप्तस्य परिरक्षणं क्षेमः । तदुभयरूप आनन्दो योगक्षेमः । इत्यनेन प्रकारेण । प्राणापानयोः । स्पष्टम् । कर्म व्यापाररूपं ब्रह्म । इत्यनेन प्रकारेण । हस्तयोः स्पष्टम् । गतिर्गमनव्यापाररूपं ब्रह्म । इत्यनेन प्रकारेण । पादयोः स्पष्टम् । विमुक्तिर्मलविमोचनव्यापाररूपं ब्रह्म । इत्यनेन प्रकारेण । पायौ गुदेन्द्रिये । १ ) गृहस (२) ब्राह्मणाः ( ३ ) हस्थान्प्रति प्रमा' । ( ४ ) कथितम् । ( ५ ) वाक् केन ब्रह्म ।