पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ भृगुवल्ली परित्यागलक्षणं व्रतं त्रतधारणम् । इतः परं मनो विज्ञानं चोत वक्तव्यं यद्यपि, तथाऽपि तयोरपि भूतकार्यत्वात्प्राणशब्देन वायुभूतमङ्गीकृत्यानशब्देन भौतिकं भूतप्रसङ्गं प्रस्तावयति- आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्याः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रति- तिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ।' महान्कीर्त्या । आपो द्रवात्मिकाअतुर्गुणाः । ज्योतिः प्रकाशात्मकं त्रिगुणम् | शेषं प्राणशरी- पर्यायवत्स मानपाठं व्याख्येम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्या मष्टमोऽनुवाकः ॥ ८॥ अथ नवमोऽनुवाकः ३८ अन्नमुक्तं बहुविकं शात्रोचैरुपायैर्याजनादिभिः कुर्वीत स्पष्टम् । तद्न्नबहुकरणं व्रतं व्रतधारणम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः | पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रति- ष्ठितं वेद् प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिः ब्रह्मवर्चसेन । महान्कीर्त्या | पृथिवी कठिना पञ्चगुणा | आकाशच्छिद्रात्मा शब्दगुणः । शेषं समानपाठमब्ज्योतिः पर्यायवव्याख्येयम् ॥ 1 इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्यां नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः न कंचन कमपि चण्डालान्तं ब्राह्मणादिकं वसताव्य रात्रौ त्वद्गृहे वासं करिष्या- मीति वसतिनिमित्तं समागतम् । प्रत्याचक्षीत न निराकुर्वीत । तद्वसतिनिमित्तं समागता- निवारणं व्रतं व्रतवारणम् । एवमेतान्युपासनानि सत्रतानि समानफलत्वादिच्छाविकल्पार्थानि उक्तफलकाम उक्तेष्वन्यतममुपासनं कुर्यादित्यवगम्यते । अत्र च भूतपञ्चकस्य भौतिकस्य च परस्परसुपकार्योपकारकभावकथनेन सर्वाद्वैते पर्यवसानं तदर्शितमिति तात्पर्यार्थः । इदानीं ब्रह्मज्ञानोत्पादे सश्रद्धमन्नदानं कारणं, तथाऽन्नमन्तरेण कर्तुमशक्यं वसतावण्यप्र त्याख्यानं नानमन्तरेण स्यात् । न हि पूर्णोदरा अप्रौर्थिता वसत्यर्थं गृहस्थस्प गृहेष्वागच्छ- न्तो दृश्यन्ते । किंतु क्षुधार्ता एव । ततोऽन्नसंपादनार्थं गृहस्थाश्रमवासिना मुमुक्षुणाऽपि महान् यत्नः करणीय इत्याह – तस्मा यस्मादत्रमन्तरेण न पुरुषार्थसिद्धिगृहस्थस्य, ततो यया कया च येन केनापि विधया - उपाय प्रकारेण याजनायन्यतमेनेत्यर्थः । बधिकमन्त्र (१) अप्रार्थितान्नाः -पाठः । 1