पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाकः ] तैत्तिरीयोपनिषद्दी पेका इदानीमानन्दात्मविज्ञानोक्कं फलमाह -[ स प्रसिद्धः । ] योऽधिकारी । एवमत्रप्राणमनो- विज्ञानेभ्योऽन्तरतम आनन्दोऽहमस्मीति | वेद जानाति साक्षात्करोतीत्यर्थः । प्रति- तिष्ठति – एवं ज्ञानवान्सोऽयमविषासंस्कारशन्यो ब्रह्मण्येवावतिष्ठते । अथवैवं प्रतिपचुम- शक्तोऽन्नादिकोशपञ्चककारणे ब्रह्मदृष्टिं कुर्यात् । सोऽप्यन्तःकरणशुद्धिद्वाराऽस्मिन्शरीरे शरी- रान्तरे वा प्रतितिष्ठति । य एवं वेदेत्यनेनान्नादिषु ब्रह्मदृष्टेरप्यभिधातुं शक्यत्वात्तादृशस्य प्रलोभनार्थ दृष्टं फलान्तर- मध्याह – अन्नवान्नित्यमन्त्रसंपन्नः | अन्नादोऽनभक्षको नीरोग इत्यर्थः । भवति स्पष्टम् । 'महानविकः । भवति स्पष्टम् । कथं प्रजया पुत्रादिसंतत्या | पशुभिर्गवादिभिः । ब्रह्म- वर्चसेन ब्राह्मणजात्युचिततेजसा । न केवलमेवं किंतु महानविकः । कथं —-कीर्त्या यशसा | प्रथमो महच्छन्दस्तस्मिन्विद्याधिक्यमाह । द्वितीयस्तु प्रजादीनां कीर्त्यन्तानाम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्री मच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्यां षष्ठोऽनुवाकः ॥ ६॥ > 2 अथ सप्तमोऽनुवाकः इदानीमस्यान्नन्ब्रह्मोपासकस्य व्रतमाह —–अन्नमदनीयं न निन्द्यान्निन्दां न कुर्यात् । तद- 'नानिन्दनं व्रतं व्रतधारणम् । पूर्वमन्त्रमन्नादश्च यथास्थितमुपासनीयमिति सिद्धवत्कृत्येदानीं वैपरीत्यमाह - प्राणौ वै पञ्चवृत्तिरेव | अन्नमदनीयम् । शरीरं स्थूलो देहः । अन्नाद्मन्न- भक्षकम, अन्नाश्रयत्वात् । प्राणे पञ्चवृत्तौ शरीरमुक्तं तदधीनस्थितित्वन प्रतिष्ठितं प्रतिष्ठां प्राप्तम् । । इदानीं वैपरीत्यमाह - शरीरे प्राणः प्रतिष्ठितः स्पष्टम् । तदुक्तम् । एतच्छरिं प्राणरूपं प्रत्यक्षम् | अन्नमदनीयम् । शरीरं प्राणश्च अन्ने शरीरे प्राणे च प्रतिष्ठितमवस्थितं वंशतृ- णादिष्विव गृहं, गृहे च वंशतृणादि । स प्रसिद्धः यो यः कश्चनोपासकः । एतदन्न- मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या | एतदन्नमन्ने प्रतिष्ठितं वेद जानाति जानीयादित्यर्थः । व्याख्यातमेतत् || इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवलयां सप्तमोऽनुवाकः ॥ ७ ॥ अथाष्टमोऽनुवाकः अन्नमुक्तं न परिचक्षीत दीयमानमन्नं न निराकुर्यात्पात्रस्थं वा न परित्यजेत् । तद्ना- ( १ ) अत्रैवं । अथ चैवं-पाठान्तरे ।