पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता अथ चतुर्थोऽनुवाकः मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय | पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञा- · सस्व | तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा || . w इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्यां चतुर्थोऽनुवाकः ॥ ४॥ पदार्थबोधिन्यां [ भृगुवडी अथ पञ्चमोऽनुवाकः विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाच्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकररानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषढीपिकायां भृगुवल्ल्यां पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठोऽनुवाकः आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्बिमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । यथाऽन्नस्य विनाशित्वं दोषो ब्रह्मत्वे, तथाऽचेतनत्वं प्राणस्य, अनिश्चयात्मकत्वं मनसः, सुखदुःखभोक्तृत्वं विज्ञानस्य च दोषः । यद्यपि चक्षुः श्रोत्रं मनो वाचमित्युपदिष्टं न विज्ञा- नमिति, तथापि क्रियाशक्तीनां वागादीनां ज्ञानशक्तीनां च चक्षुरादीनां प्राणमनःसमानयो- गक्षेमत्वात्पृथक्तद्विज्ञानं च नोक्तम् । मनसोऽपि विज्ञानतन्त्रत्वान्मनसाऽभिधीयमानत्वेन विज्ञानमप्यर्थादुक्तमेव । ततस्तदर्शनं दोषदृष्टया पितरं प्रत्यागमनं चेत्यविरुद्धम् । प्राणमनो- विज्ञानानि प्राणमयमनोमयविज्ञानमयकारणान्यानन्दवाऽऽनन्दमयकारणम् | पुच्छं च तस्य ब्रह्मशब्दाभिधेयो मुख्यः । ततोऽस्य दर्शनानन्तरं पितरं प्रत्यागमनाभावः । स तप इत्या- रभ्येतीत्यन्ताः प्राणमनोविज्ञानानन्दपर्यायाश्चत्वारोऽपि समानपाठा अन्नपर्यायवव्याख्येयाः । इदानीमाख्यायिकासिद्धमर्थं श्रुतिराह विद्यास्तुतये—–—सा प्रसिद्धा । एषेदानीमुक्ता । भार्गवी भृगुणाऽवगता भार्गवी । वारुणी वरुणेन प्रोक्का वारुणी | विद्या ब्रह्म- विद्या | परम उत्कृष्टे । व्योमन्व्योम्न्यानन्दात्मनि । प्रतिष्ठिताऽवस्थानं प्राप्ताऽऽनन्दात्म- · न्येव पर्यवसितेत्यर्थः ।