पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ तृतीयोऽनुवाकः ] तैत्तिरीयोपनिषद्दीपिका ३५ तपसा शुद्धान्तःकरणस्य मनस इन्द्रियाणां चैकाव्यं जायत इति व्याख्येयम् । स तापसो भृगुः | तप उक्तरूपम् | तप्त्वा संपाय | इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां. तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्यां प्रथमोऽनुवाकः । अथ द्वितीयोऽनुवाकः । अतिस्थवीयबुद्धित्वेनान्नं ब्रह्मात्रमेव ब्रह्मलक्षणाक्रान्तं ब्रह्मशब्दाभिधेयम् । इत्यनेन प्रका- रेण व्यजानाद्विशेषेणावगतवान् । तद्विज्ञानप्रकारं श्श्रुतिराह – अन्नादुक्तात् | हि यस्मात् । एवान्नादेव न त्वन्यस्मात् । खलु निश्चितम् । इमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रय- न्त्यभिसंविशन्ति- व्याख्यातम् । यत्पदस्थलेऽन्न पदमिति विशेषः । इत्यनेन प्रकारेण । तदनं ब्रह्मरूपं विज्ञायावगत्य प्रत्यक्षणोपपत्या चान्नस्य नाशमवलोक्यान्नताब्रह्मलक्षणाभ्यां संशयाविष्टहृदयः । पुनर्भूय एव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तर होवाच-व्याख्यातम् । वरुणं पितरमुपससारैवेत्यन्वयः । तपसा व्याख्यातेन त्वया स्वयं ज्ञातेनोपायेनेत्यर्थः । ब्रह्म विजिज्ञासस्व पर्यालोचनेन ब्रह्मणोऽवगतिं कुरु । इदानीमुपायमुपेयदृष्ट्या स्तौति - तपो ब्रह्म ब्रह्मप्रतिपच्युपायभूतं तपो ब्रह्मोपेय- मित्यनेनार्थादिदमुक्तम् – ब्रह्मज्ञानार्थिना नित्यानित्यवस्तुविवेकांदिकं साधनं संपादनीयम् । तत्संपादयितुमशक्तश्चेत्तस्मिन्त्रदृष्टिं कुर्यादिति । अन्यथाऽत्र वक्ष्यमाणपर्यायत्रये च तपो ब्रत्यभिधानं व्यर्थं स्यात् । स तपोऽतप्यत । स तपस्तप्त्वा । इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्यां द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः प्राणो ब्रह्मेति व्यजानात् । प्राणायेव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय | पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व | तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा || इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकर नन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकाया॑ भृगुवल्ल्यां तृतीयोऽनुवाकः ॥ ३ ॥ ( १ ) ० दिनाऽनुसंधानं-पाठः ।