पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ भृर वल्ली अथ प्रथमोऽनुवाक: क्ता ब्रह्मविया । ब्रह्मावगतौ चोपाया अन्नमयादयः पञ्च कोशाः । तांश्चेत्तथाऽवगन्तुमशक्तः कृतश्चित्प्रतिबन्धात, तस्य तत्प्रतिबन्धकारणापाकरणभूतानि तप आदीनि । तपसि कारणे च ब्रह्मदृष्टिं विधातुं प्रसङ्गादुपासनांन्तरार्थमपीयं वल्लयारभ्यते । तत्राऽऽख्यायिका गुरूपदे- शादेर्ब्रह्मविद्याङ्गत्वं दर्शयितुं विद्यां स्तोतुं च । भृगुर्नामतः वै प्रसिद्धः । वारुणिर्वरुणस्या- पत्यं वाणिः | वरुणं वरुणनामानं पितरं भृगोर्जनकमुपससार शास्त्रदृष्टेन मार्गेण विद्यार्थं समीपमागतवान् । आगत्य चेदमूचे - अधीह्यध्ययनं कुरु । अयमर्थः- स्मरसि त्वं ब्रह्म, ततो मह्यं वद | भगवो भगवन् हे पूजावन् । ब्रह्मातिशयेन वृद्धं जगज्जन्मादिकार- णमित्यनेन मन्त्रेणोपससार । अनन्तरं पिता तस्मै भृगव एतद्वक्ष्यमाणं प्रोवाच प्रकर्षे- णोक्तवान् । अन्नमद्यतेऽत्ति च शरीरमध्यात्मादिभेदभिन्नम् । प्राणं शरीरान्तर्वर्तित्वेन वायु- मत्तारमेव क्रियाशक्तिम् । इदानीं ज्ञानक्रियाशकीनि भोगसाधनान्याह – चक्षू रूपग्रहणका- रणम् । श्रोत्रं शब्दोपलब्धिकारणम् । उपलक्षणमिदं त्वग्रसनघ्राणानाम् | मनः सर्वकरण- ·साधारणमन्तःकरणं ज्ञानशक्ति | वाचं वक्तव्यकारणभूतीम् | उपलक्षणमिदं पाणिपादपायू- पस्थानाम् । इत्यनेन प्रकारेण । अयमर्थः --भोग्यं भोक्ता भोगसाधनं चेति समग्रोऽपि प्रपञ्चस्तं ब्रह्मलक्षणं च कथयिष्यामि । यावच्चास्याऽऽत्मज्ञानं न भविष्यति तावत्पण्डितंमन्यः क्वचित्कचिद्भह्मोपासनं करोतु । तेनोपासनेन क्षीणपापो (?) ब्रह्मावगन्तुं शक्यते न त्वन्यथेति ·तदभिप्रायेण श्रुतिराह—तमुपदिष्टप्रपञ्चम् | ह किल । उवाचोक्तवान्वरुणः । यतोऽभि - · त्रनिमित्तोपादानात् । वै प्रसिद्धानि । इमानि विविधप्रत्ययगम्यानि । भूतान्याकाशादीनि स्वेदजादीनि च । जायन्त उत्पद्यन्ते । येन जीवनकारणेन जातान्युत्पन्नानि सन्ति जीवन्ति प्राणधारणोपलक्षितां स्थितिं कुर्वन्ति । यल्लयस्थानं घटस्येव मृत् । प्रयन्ति गच्छन्ति स्वस्वकार्यस्वभावं परित्यजन्ति सन्तीत्यर्थः । अभिसंविशन्ति सर्वतः सम्य- क्प्रवेशं कुर्वन्ति । तदुक्तलक्षणं जगज्जन्मस्थितिध्वंसकारणम् । विजिज्ञासस्व विशेषेण ‘ अहं तदस्मि ' इति शातुमिच्छां कुरु जानीहीत्यर्थः । ननु मया ब्रह्म पृष्टं, भवताऽन्यदुच्यत इत्यत आह - तदुक्तलक्षणं ब्रह्म ब्रह्मशब्दाभिधेयं नान्यदित्यर्थः । इतिः पितुर्वचनसमाप्तौ । स श्रुतपितृवाक्यो भृगुः । तपः पर्यालोचनमन्त्रादिषूक्तेषु लक्षणाक्रान्तं कतमदित्येवं रू- पम् । अतप्यत कृतवान् । अथवा स्वधर्मवृत्तित्वं तपः कृच्छ्रचान्द्रायणादि वा । अस्मिन्पक्षे ! ( १ ) °भूतम् – पाठः ।